SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ८ अर्थरत्नावली राजाय नो ददते सौख्यम् ॥ ४२ ॥ राजवत्-नृपवत् आयो - भाग्यं यस्य स राजायः एवंविधः कोऽपि जनः तमाचष्टेस्तोतीति राजा । नः - अस्माकं सौख्यं ददते । अर्धयोजना तु (यत्र) कृता न भवति तत्र स्वयं कार्या । मया तु ग्रन्थगौरवभयान्न लिख्यते ॥ ४२ ॥ [ अर्थाः ४२-५६ ] राजा ! नो ददते असौख्यम् ॥ ४३-४४ ॥ जयानां समाहारो जायं - जयसमूहं आचष्टे इति जायू - वन्दिजनादिः तत्सम्वोधनं हे जायू ! "राः कनके विभवे मेघे स्थानके" इति सुधाकलशवचनात् राः - कनकं ( १ ) द्रव्यं (२) मेघः (३) आश्रयश्च (४) । नो-न असौख्यं ददते । सौख्यं ददते इत्यर्थः । इदं स्वर्णद्रव्यमेघाश्रमा ( या ? )र्थिनां वचनम् ॥ ४ ॥ स्वयं बुद्ध्या चत्वारोऽप्यर्थाः पृथक् १० पृथक् कार्याः ॥ ४४ ॥ राजावू नो ददते सौख्यम् ॥ ४५ ॥ “रं जले रङ्गवेगयोः” इति विश्वशम्भुवचनात् रेण-रङ्गेण अजां -गलस्तनीं अवति-रक्षतीति राजावः - अजारक्षाकृत् कोऽपि धर्मिष्ठो जनः तं आचष्टे इति राजाव् । एवंविधः कोऽपि नः-अस्माकं सौख्यं ददते । अर्धयोजना स्वयं कार्या । वलोपादि पूर्ववत् १५ ज्ञेयं, ग्रन्थगौरव भयात् न वारंवारं सूत्राणि लिख्यन्ते ॥ ४५ ॥ र! अजाबू नो ददते सौख्यम् ॥ ४६-५० ॥ अवन्ति-स्वामी भवन्तीति अवाः । अजाः हर १ हरि २ ब्रह्म ३ रघुज ४ स्मरा ५ख्या देवाः अवाः - स्वामिनो येषां ते अजावास्तान् आचष्टे - स्तौतीति अजाव - हरादिदेवसेवकस्तुत् ५ हे र! हे नर ! नः - अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या । २. वलोपादिः पूर्ववत् । एवमत्र पञ्चाप्यर्थाः पृथक् पृथक् स्वयं कार्याः ॥ ५० ॥ राजावू नो ददते सौख्यम् ॥ ५१-५६ ॥ राजभ्यो - नृपचन्द्रयक्षेभ्यः आं-लक्ष्मीं अवन्ति - गच्छन्ति प्राप्नुवन्तीति राजावा:नृपचन्द्रयक्षसेवकाः तान् आचष्टे इति राजाव् ॥ ३ ॥ नः - अस्माकं सौख्यं असौख्यं च ददते । अर्धयोजना स्वयं कार्या । वलोपादिः पूर्ववत् । एवमत्र नृपसेवकस्तावकेन चन्द्र२५ सेवकस्तावकेन यक्षसेवकस्तावकेन च समं सौख्यासौख्यपदद्वयं मीलयित्वा पडर्थाः कार्याः ॥ ५६ ॥ १ " द्रव्ये कनके पुनः । भाधये नीरदे च स्यात्" इति सुधा० (लो० ३७) । २ अत्र 'चस्वारोऽप्यर्था: पृथक् पृथक् कार्या:' इति स्पष्टोल्लेखे सत्यपि आदर्शपुस्तकेषु भर्थाङ्कद्वयमेवोपलभ्यते तच्चिन्त्यम् । 'सौख्यं' इति संयोजना । अर्थान्तरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy