SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ [ अर्थाः १७-२७] श्री समय सुन्दरंगणिकृता सर्वपरिग्रहरहितः, यतिरित्यर्थः । तमाचष्टे - स्तौतीति अजाय् । नः - अस्माकं सौख्यं ददते । यलोपादिः पूर्ववत् । अर्थयोजना स्वयं कार्या ॥ १६॥ - आजा नो ददते असौख्यम् ॥ १७ ॥ "ऋर्देवमातरि" इति ( श्रीसुधाकलशमुनीशकृताया एकाक्षरनाममालिकायाः श्लो० ६ ) वचनात् ऋ - देवमातरं आ - सामस्त्येन अजन्ति-सुरारित्वेन क्षिपन्तीति राजा- ५ दैत्याः । नः - अस्माकं असौख्यं ददते । इदं सुराणां वचनम् । अत्र 'इवर्णादेरस्व स्वरे यवरलम्' (सिद्ध० अ० १, पा० २, सू० २१ ) इति सूत्रेण रत्वे सन्धौ च कृते राजा नो ददते असौख्यमिति रूपसिद्धिः ॥ १७ ॥ राजा नो ददते सौख्यम् ॥ १८ ॥ ५ "ॠस्त्वजे दानवाञ्छायाम्" इति ( सुधा० श्लो० ७ 1) वचनात् ऋः - अजो - १० मेषः तेन वाहनभूतेन अजति गच्छतीति रजः- अग्निदेवता तस्य इमे राजाः - अग्निहोत्रीया ब्राह्मणाः नः - अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या ॥ १८ ॥ ऋ-आजा नो ददते असौख्यम् ॥ १९ ॥ ऋः- दानवाञ्छा तस्या आजः -क्षेपो येभ्यः येषां वा ते रत्वे कृते राजाः - कृपणाः नः - अस्माकं असौख्यं ददते- प्रयच्छन्ति, वितरणाभावात् । इदं याचकानां वचनम् ॥१९॥ १५ ऋ-आ-अजा नो ददते असौख्यम् ॥ २०-२१ ॥ " ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान्" इत्यादि (विश्व०) वचनात् अरंपावकं - अग्निदेवं आ - सामस्त्येन अजन्ति - देवत्वेन गच्छन्तीति रत्वे कृते राजा :- अग्निदेवसेवकाः नो-न असौख्यं ददते । इदं अग्निहोत्रीय ब्राह्मणवचनम् ॥ २० ॥ राजा: एवं अरं - सूर्य - आदित्यदेवं आ - सामस्त्येन अजन्ति-देवत्वेन गच्छन्तीति रत्वे कृते १० :- श्रीसूर्यदेवोपासकाः नो-न असौख्यं ददते । इदमपि तद्विधानामेष वचनम् ॥ २१ ॥ ऋ-आ-अजा नो ददते सौख्यम् ॥ २२-२४ ॥ अरं धर्म दानं धनं वा आ-सामस्त्येन अजन्ति - गच्छन्ति प्रामुवन्तीति रवे कृते राजा:-धर्मिष्ठाः गुणिनः गुणाढ्याश्च पुरुषाः नः - अस्माकं सौख्यं सुखं ददते ॥ ३ ॥ इदं उत्तमजनवचनम् ॥ २४ ॥ ऋ-आजा नो ददते सौख्यम् ॥ २५-२७ ॥ ऋशब्दस्य प्रथमैकवचने आ इति रूपम् । ततः आ इति धर्मो दानं धनं च तस्य आजः -क्षेपो येभ्यो येषां ते । रखे कृते राजाः नास्तिकाः दानक्षेपकाः विरक्ताश्च पुरुषाः नो-न सौख्यं ददते । इदं आस्तिकानां दातॄणां संसाररक्तानां च वचनम् ॥ ३ ॥ २७ ॥ Jain Education International For Private & Personal Use Only २५ www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy