SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना (११) रत्नाकरावतारिकाद्यपद्यशतार्थी । (१२) श्रीलाभविजयगणिप्रणीता नमो दुर्वारेत्यादिपद्यस्य पैश्चशतार्थी । (१३) श्रीहर्पकुलगणिविरचिता शतार्थी । (१४) श्रीवप्पभदिसूरिनिर्मिता 'तत्तीसिया'दिगाथाया अष्टोत्तरशतार्थी । (१५) श्रीहंसप्रमोदगणिकृताऽनेकार्थमयी सारङ्गसारवृत्तिः । (१६) श्रीभावप्रभसूरिकृतं मंदनादरविवरणम् । (१७) महोपाध्यायश्रीविनयविजयकृता 'चत्तारिअट्ठ'व्याख्या । (१८) श्रीदेवेन्द्रसूरिकृता (१९) श्रीसोमतिलकमूरिविनिर्मिता साधारणस्तुतिः स्वोपज्ञवृत्तिविभूषिता । (२०) एतत्सरिप्रणीतं सर्वज्ञस्तोत्रं विविधार्थालङ्कृतं 'सदानवसुराजितं'चतुर्थचरणात्मकम् ।। १० (२१) श्रीलक्ष्मीसागरसूरिशिष्यमहोपाध्यायश्रीचारित्ररत्नगणिप्रणीते एकोनत्रिंशत्पद्या.. १ प्रेक्ष्यतां जैनग्रन्थावली (पृ. ७८) । २ योगशास्त्रस्यादिमं पद्यमिदम् । तथाहि __"नमो दुर्वाररागादि-वैरिवारनिवारिणे । भर्हते योगिनाथाय महावीराय तायिने ॥ ॥" ३ भस्या भस्तिस्वं तपागच्छीयपट्टावल्यनुसारेण ज्ञेयम् । न चेयं मे नयनगोचरतां गता। ४ "तेषां रा(प्रा?)ऽपे राज्ये, विबुधा निर्मलशतार्थविरुदभृतः। श्रीहर्पकुलगणीन्द्रा, विबुधावतंसा बभूवु।" इति श्रीविजय विमलगणिकृतबन्धहेतूदयत्रिभङ्गीप्रकरणटीकाप्रारम्भिकपद्येनानुमीयते यदुतैभिः काऽपि शतार्थी निरमायि । ५ केवलमर्थचतुष्टयं समसूचि श्रीप्रभाचन्द्र सूरिभिर्निजकृती प्रभावकचरिताहृयायां (पृ. १४४-१४५)। ६ सम्पूर्ण पद्यमेवम् "सारप्रसारकमलादरसोमकान्त-देवागमामृतविभाजनधीरभूते । वामोपकार भरताधिप राजमान-वर्णाप्त बन्धुरशिवाज हरेक्षभाव ॥" ७ एतस्प्रारम्भिक उल्लेख एवम्__ "नमस्कृत्य कृतानन्दं, कन्दं सौभाग्यशाखिनः । वीरं पदर्थवृत्तस्य, वृत्तिं कुर्वे यथामति ॥ १॥" भन्ते पचं यथा"दोहास्यगुहास्यैक(१९६२)मिते वर्षे कृता अमी । अर्थाः सहादि सप्तम्या, पार्श्वनाथप्रसादतः ॥" ८ एतदर्थ प्रेक्ष्यतां श्रीभावप्रभसूरिकृतस्य श्रीनेमिभक्तामरस नवमस्य पद्यस्य स्वोपज्ञवृत्तेर्मदीयावृत्तः तमात् ११३तमपर्यन्तानि पृष्ठानि । ९ एतद्गाथाया भन्येऽन्येऽर्थाः प्रतिपादिताश्चैत्यपरिपाटीस्तवने । एतदर्थं विलोक्यता श्रीभावप्रभसूरिकृतिकलापाण्या मदीयाऽऽवृत्तिः (पृ. १३९-१४३)। १० एतजिज्ञासुभिः प्रेक्ष्यतामुपर्युकाऽऽवृत्तिः (पृ. १४३-१४६)। " अन्यकर्तृकावचूरिसमेता सम्पादितेयं मया । एतदिक्षुभिः प्रेक्ष्यता श्रीमेरुविजयगणिकृतश्रीचतुर्विशतिजिनानन्दस्तुतेर्मदीयाऽऽवृत्तिः (पृ. २१५-२१४)। १९ मदीयानुवादपूर्षकं समस्तीदं स्तुतिचतुर्विंशतिकाभिधे अन्थे (पृ. १६८१७.)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy