SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सम्वत्थशब्दार्थसमुच्चयः श्रवणार्हाः श्राव्याः-ज्ञेयाः 'श्रु गतौ' 'ये गत्यर्थास्ते ज्ञानार्थाः' इति तेऽर्थाः येषां ते श्रव्याथाः ॥ ६३ ॥ श्राम्यन्ति-तपस्यन्ति संयमानुष्ठानेन इति श्राः डप्रत्ययः, तान् अवति नरकपातात् इति श्रीः-धर्मः 'अव रक्षणे' (सिद्ध० धा०) किप ऊब वृद्धिश्च तं यन्ति-जानन्तीति श्राव्यः । 'ईल् गतौ' ( ) अर्यन्त इति अर्थ्याः पश्चात् कर्मधारयः श्राव्यर्थ्याः॥६४॥५ श्राम्यन्ति-खिद्यन्ते कृपया परदुःखवीक्षणेन इति श्राः 'श्रम भ्यत्रिइर् तपःखेदयोः' ( ) डप्रत्ययः । अविः-मेषः तस्य अर्थो येषां ते अव्यर्थाः, तदङ्गोद्भवाया ऊर्णायाः साधुरजोहरणदशोपयोगित्वात् पश्चात् श्राश्च ते अव्यर्थाश्चेति श्राव्यर्थाः-साधवः ॥ ६५ ॥ शाम्यन्तीति शाः 'शम् उपशमे' डप्रत्ययः, विगतोऽर्थो-द्रव्यं येभ्यस्ते तत्परित्यागकर्तृत्वाजिनानामिति व्यर्थाः, पश्चात् कर्मधारये शव्यर्थाः ॥ ६६ ॥ स्यन्ति-नाशयन्ति दुःखानीति साः 'पोय नाशे' ( ) डः । अर्वो-वधः कर्मरिपूणां 'अर्व वधे' ( ) अव् स एवार्थों येषां ते अर्वार्थाः, पश्चात् साश्च ते अर्वाथाश्चेति सार्वार्थाः ॥ ६७ ॥ सा-लक्ष्मीस्तां विशेषेण अर्थयन्ते-याचन्त इति साव्यर्थाः, 'अर्थत्कङ् याचने' ॥ ६८॥ श्रवणं श्रवः श्रव् तत्वानां आकर्णनं स विद्यते येषां ते श्रविणो-भव्याः तैः अर्यन्ते ये १५ ते श्रव्याः ॥ ६९ ॥ सति-मोक्षे वसतीति सद्वस्ता-श्रीजिनः, 'वस निवासे' ( ) तृच ॥ ७० ।। शलन्ति-शिवं गच्छन्ति इति शाः 'शल्ज् गतौ' ( ) डः, उः-सुखम् , ई-केवललक्ष्मीः व्यौ ते-अयं ते यैस्ते व्यर्थ्याः शाश्वते व्यर्थ्याश्चेति शव्याः ॥ ७१ ।। शलयन्ते-श्लाघन्ते यान् लोका इति शाः 'शल्क् श्लाघे' डः, वीः-विशिष्टं ज्ञानं २० 'ईल गतो' तस्या अर्थो येषां ते व्यर्थाः, शाश्वते व्यर्थाश्चेति शव्यर्थाः ॥ ७२ ।। __ सन्यन्ते-सेव्यन्ते लोकैरिति साः 'पन् सम्भक्तो' डप्रत्ययः अवनं अवः-तत्त्वार्थशब्दनं 'उङ् शब्दे' अच् । स विद्यते येषां ते अविनः-सभ्याः, तैः अर्थ्यन्ते ये ते अव्यर्थ्याः, साश्च ते अव्यर्थ्याश्च साव्याः ॥७३॥ सनन्ति-ददति सर्वेषां अभयदानमिति साः, षण् दाने' ( ) डे रूपम् , अवनं २५ अवः अच् , एकेन्द्रियादिजन्तूनां रक्षणम् १, मोक्षगमनम् २, प्रीतिकारिणी कान्तिः ३, धर्मप्रीतिः ४, तृप्तिः ५, तत्त्वानामवगमनम् ६, मोक्षपुरीप्रवेशः ७, धर्मस्य श्रवणम् ८, विजगत्स्वामित्वम् ९, शिवसुखयाचनम् १०, विशुद्धा क्रिया ११, तत्त्वश्रवणेच्छा १२, तपोदीप्तिः १३, धर्मस्य प्राप्तिः १४, संयमस्त्रिया आलिङ्गनम् १५, कर्मरिपूणां हिंसनम् १६, ''इस्यधिकोऽपि पाठः । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy