SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १५ २० २५ ८६ श्रीगुणविजय गणिगुम्फितः श्वासपराजितवंरसारङ्गं दुर्मदविधिवदने सारङ्गम् । दुरितमलापनयनसारङ्गं मन्मथभस्मकरणसारङ्गम् ॥ ७ ॥ कुमतिलतालवने सारङ्गं करपङ्कजसमतासारङ्गम् । समवसरणसञ्चितसारङ्गं त्रिभुवनभवनसुभगसारङ्गम् ॥ ८ ॥ निर्मलतागङ्गासारङ्गं भ्रूमञ्जुलताजितसारङ्गम् । शमर सरलाकर सारङ्गं सज्जनमनपङ्कजसारङ्गम् ॥ ९ ॥ अद्भुतपरिमलसुखसारङ्गं देवसमुद्गाहितसारङ्गम् । कण्ठचमत्कृत कलसारङ्गं दुर्नयविततगहनसारङ्गम् ॥ १० ॥ दमितकरणचञ्चलसारङ्गं मुक्तरजत मणिगणसारङ्गम् । निर्वृतिमृगनयन सारङ्गं कुमतकुरङ्गहननसारङ्गम् ॥ ११ ॥ त्रिभुवनवर्ति सुजनसारङ्गं सिद्धिवधूलोचनसारङ्गम् । शशिसोदरसुन्दरसारङ्गं सौवरमादर्शितसारङ्गम् ॥ १२ ॥ कीलितकोपविषमसारङ्गं वाणीशीतलतासारङ्गम् । पावित निजनिरुपमसारङ्गं मृगमदजैत्रवदनसारङ्गम् ॥ १३ ॥ निजवशनिर्मितमतिसारङ्गं सुरपतिभिर्विनुतं सारङ्गम् । विदलित मोहविपुल सारङ्गं देवीकृतवापीसारङ्गम् ॥ १४ ॥ गगनचलित गुरुवृषसारङ्गं ज्ञातकुले निर्जरसारङ्गम् । रोषभुजङ्गद मनसारङ्गं ज्ञानमहाभूरुहसारङ्गम् ॥ १५ ॥ स्वीयवशीकृतमनसारङ्गं लेश्यागुणगालितसारङ्गम् । 'दानावर्जितभविसारङ्गं निगदितनियत निपुणसारङ्गम् ॥ १६ ॥ केलिकृते रक्षितसारङ्गं जनरञ्जनलोचनसारङ्गम् । लुश्चितभुजगसदृश सारङ्गं धर्मकथालापितसारङ्गम् ॥ १७ ॥ अङ्गरजोमृगमदसारङ्गं मोहरजनिबोधनसारङ्गम् । स्वरमाधुर्यमथितसारङ्गं वीरं भजत सुकृतसारङ्गम् ॥ १८ ॥ इत्थं वीरजिनः स्तुतो नवनवैः सारङ्गशब्दोद्भवैः सद्भावैः समयं गुणादि विजयेनानन्दरोमोद्गमम् । हर्षोत्कर्षवशेन पेशलतरैर्भावैः सुरैः सन्नत श्चित्तप्रीतिकरं परं पदमयं दद्यान्मुदा देहिनाम् ॥ १९ ॥ - शार्दूल० 欢 १-२ मनसः स्थाने 'मन' प्रयोग श्चिन्तनीयः । Jain Education International 34 逛 ३ ' गुणविजयेन' इत्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy