SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५८ गिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः । [ नवम वाहडस्य तनूजेन, सूत्रधारेण धीमता । एषा कुमारसिंहेन, समुत्कीर्णा प्रयत्नतः ॥२॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु, प्रशस्तिः स्वस्तिशालिनी ॥ ३ ॥ श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना । शुभं भवतु ॥ (४४-७) वैस्तुपालविहारेण, हारेणेवोज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते श्रीविक्रमसंवत् १२८९ वर्षे आश्विनवदि १५ सोमे महामात्यश्रीवस्तुपालेन आत्मश्रेयोऽर्थ पश्चाद्भागे श्रीकपर्दियक्षप्रासादसमलंकृतः श्रीशत्रुजयाव[तार]श्रीआदिनाथप्रासादस्तदग्रतो वामपक्षे स्वीयसद्धर्मचारिणी महं० श्रीललितादेविश्रेयोऽथ विंशतिजिनालंकृतः श्रीसम्मेतशिखरप्रासादस्तथा दक्षिणपक्षे द्वि० भार्या महं० श्रीसोखुश्रेयोऽथ चतुर्विंशतिजिनोपशोभितः श्रीअष्टापदप्रासादः अपूर्वघाटरचनारुचिरतरमभिनवप्रासादचतुष्टयं निजद्रव्येण कारयांचक्रे । (लिष्ट ऑफ आर्कियोलॉजिकल रिमन्स इन बॉम्बे पॅसिडन्सी पृ० ३६१) (४५-८) महामात्यश्रीवस्तुपाल महं० श्रीललितादेवीमूर्ति । (४६-९) महामात्यश्रीवस्तुपाल महं० श्रीसोखुकामूर्ति.... । (लि० ऑ० आ० रि० इ० बॉ० प्र० पृ० ३५७-८) (४७-१०) वस्तुपालविहारेण, हारेणेवोज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते (४८-११) वस्तुपालविहारेण, हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते (लि. ऑ० आ० रि० इ० बॉ० प्र० पृ० ३५९) १ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे ३८-४२ संख्यगिरिनारसत्कप्रशस्त्योरपि प्रान्तभागे वर्तते ॥ २ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे ३८-३९-४०-४२ संख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्तते ॥ ३ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे ४७-४८ संख्यगिरिनारसत्कप्रशस्तिरूपेणापि दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy