SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [नवमं ॥ ३ ॥ ॥ ४ ॥ गिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत स्तैस्तैः स्वं शपथैः कथं कथमिव प्रत्याययांचक्रिरे न्यासं व्यातनुतां विरोचनसुत (*) स्त्यागं कवित्वश्रियं, मास-व्यासपुरःसराः पृथु-रघुपायाश्च वीरव्रतम् । प्रज्ञां नाकिपताकिनीगुरुरपि श्रीवस्तुपाल! ध्रुवं, जानीमो न विवेकमेकमकृतोत्सेकं तु कौतस्कुतम् ? वास्तवं वस्तुपालस्य, वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि स्तोतव्यः खलु वस्तुपालसचिवः कैर्नाम वाग्वैभवै र्यस्य (*) त्यागविधिर्विधूय विविधां दारिद्र्यमुद्रां हठात् विश्वेऽस्मिन्नखिलेऽप्यसूत्रयदसावर्थीति दातेति च, द्वौ शब्दावभिधेयवस्तुविरहव्याहन्यमानस्थिती आयेनाप्यपवर्जनेन जनितार्थित्वप्रमाथान् पुनः, स्तोकं दत्तमिति क्रमान्तरगतानाहाययन्नर्थिनः । पूर्वस्माद् गणसंख्ययाऽपि गुणितं यस्तेष्वनावर्तिषु, । द्रव्यं (*) दातुमुदस्तहस्तकमलस्तस्थौ चिरं दुःस्थितः विश्वेऽस्मिन् किल पङ्कपकिलतले प्रस्थानवीथीं विना, सीदन्नेष पदे पदे न पुरतो गन्तेति संचिन्तयन् । धर्मस्थानशतच्छलेन विदधे धर्मस्य वर्षीयसः, संचाराय शिलाकलापपदवीं श्रीवस्तुपालः स्फुटम् अम्भोजेषु मरालमण्डलरुचो डिण्डीरपिण्डत्विषः, कासारेषु (*) पयोधिरोधसि लुठनिर्णिक्तमुक्ताश्रियः । ज्योत्स्नाभाः कुमुदाकरेषु सदनोद्यानेषु पुष्पोल्बणाः, स्फूर्ति कामिव वस्तुपालकृतिनः कुर्वन्ति नो कीर्तयः ? देव स्वर्नाथ ! कष्टं ननु क इव भवान् ! नन्दनोद्यानपालः, खेदस्तत् कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः, । हुं मा वादीस्तदेतत् किमपि (*) करुणया मानवानां मयैव, । प्रीत्याऽऽदिष्टोऽयमूास्तिलकयति तलं वस्तुपालच्छलेन श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः, सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । ॥ ७ ॥ ॥ ८ ॥ १ पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ चतुर्थपद्यतयाऽपि वर्तते ॥ २ पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ २७ तमपद्यरूपेणापि वर्त्तते ॥३ पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ २५ तमपद्यरूपेणापि वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy