SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीउदयप्रभाचार्यविरचिता [द्वितीयं परिशिष्टम् नेत्राणाममृताञ्जनं कथमिव श्रीवस्तुपालः कृती, सोऽयं नास्तु घनोदयः परिलसद्वृत्रारिधर्मस्थितिः । चक्रे मार्गणपाणिशुक्तिकुहरे यः स्वातिवृष्टिं मुहुः, कृत्वा मौक्तिकनिर्मलं निजयशो दिकामिनीमण्डनम् ॥ २७ ॥ श्रीवस्तुपाल ! क्षितिपालमुद्रां, भूमण्डलान्तः कति नैव दधुः ? । दोषस्य दुष्टप्रभवस्य मन्त्रिन् !, प्रभुभवानेव तु निग्रहाय ॥ २८॥ या प्रार्थना याचकवक्त्रवासादासादयद दुर्भगतामतीव । दानाय सैवार्थिषु वस्तुपाल !, स्थिता तवाऽऽस्ये सुभगीबभूव ॥ २९॥ अत्यद्भुता सचिवपुङ्गव वस्तुपाल !, कौतस्कुती स्फुरति धर्मकला तवेयम् । यत् कर्हि चिद् विमुखतामुपनीय पृष्टा, पीठामि (नि?) पश्यसि न मार्गणमण्डलस्य ॥३०॥ त्रिजगति यशसस्ते तस्य विस्तारभाजः, कथमिव महिमानं ब्रूमहे वस्तुपाल !। सपदि यदनुभावस्फारितस्फीतमूर्तिर्विधुरगिलदरातिं राहुमाहुस्तमङ्कम् ॥ ३१ ॥ बाणे गीर्वाणगोष्ठी भजति भगवति ब्रह्मभूयं प्रपन्ने, ___ व्यासे विद्यानिवासे कलयति च कलां कैंशकी कालिदासे । माघे मोघां मघोनः सफलयति ईशं वोऽद्य वाग्देवतायाः, सोऽयं धात्रा धरित्र्यां निवसनसदनं प्रस्तुतो वस्तुपालः ॥ ३२ ॥ वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, रोहन्मोहतया तया हृतपरिस्पन्दोऽतिमन्दोद्यमः । श्रीमन्त्रीश्वर वस्तुपाल! भवतो हस्तावलम्बं चिराद्, धर्मः प्राप्य महीं विहर्तुमधुना धत्ते पुनः पाटवम् ॥३३॥ ॥ इति नागेन्द्रगच्छीयश्रीउदयप्रभसूरिकृता वस्तुपालस्तुतिः ॥ HALLAHR १ पद्यस्यास्योत्तरार्धमिदं सुकृतकीर्तिकल्लोलिन्यां १०५ तमश्लोके ॥ २ वृष्टिव्रजैर्मुक्तैौक्तिकनिर्मलं शुचि यशो दिक्कामिनीभूषणम् सुकृतकीर्तिकल्लोलिन्याम् ॥ ३ पद्यमिदं धर्माभ्युदयचतुर्थसर्गप्रान्ते वर्तते ॥ ४ पद्यमिदं पुरातनप्रबन्धसंग्रहगतवस्तुपालप्रबन्धे २४८ तमं सोमेश्वरदेवोक्तितयोल्लिखितं वर्तते ॥ ५ मघवति पुरातनप्रबन्धसंग्रहे ॥६शवीं का पुरातनप्रबन्धसंगहे ॥ ७ दृशं चाद्य पुरातनप्रबन्धसंग्रहे ॥ ८ पद्यमिदं धर्माभ्युदयमहाकाव्यप्रथमसर्गप्रान्ते वर्तते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy