SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 20 अम्बिकास्तोत्रम् | (३) अम्बिकास्तोत्रम् | पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितंत्रिजगतीदुरितापहाराम् । दौर्गत्यपातिजनताजनितावलम्बा मम्बामहं महिमहैमवतीं महेयम् यद्वक्त्रकुञ्जकुहरोद्गत सिंहनादोऽप्युन्मादिविघ्न करियूथकधाममाथम् । कुष्माण्ड ! खण्डयतु दुर्विनयेन कण्ठः, कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥ २ ॥ कुष्माण्ड ! मण्डनमभूत् तव पादपद्मयुग्मं यदीयहृदयाव निमण्डलस्य । पद्मालया नवनिवासविशेषलाभलुब्धा न धावति कुतोऽपि ततः परेण दारिद्र्यदुर्दमतमः शमनप्रदीपाः, सन्तानकानन घनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः, कुष्माण्डि ! पान्तु पदपद्मनखांशवस्ते देवि ! प्रकाशयति सन्ततमेष कामं, वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रणितां सहकारलुम्बिमम्बे ! विलम्बविकलस्य फलस्य लाभम् ॥ ५ ॥ हन्तुं जनस्य दुरितं त्वरिता त्वमेव नित्यं त्वमेव जिनशासनरक्षणाय । देवि ! त्वमेव पुरुषोत्तममाननीया, कामं विभासि विभया सभया त्वमेव तेषां मृगेश्वर - गर- ज्वर - मारि - वैरि- दुर्वारवारण - जल - ज्वलनोद्भवा भीः । उच्छृङ्खलं न खलु खेलति येषु धत्से, वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥ ७ ॥ देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्ग । एतत् त्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥ ८ ॥ वरदे ! कल्पवल्लि ! त्वं, स्तुतिरूपे ! सरस्वति ! | पादाग्रानुगतं भक्तं, लम्भयस्वातुलैः फलैः ॥ ९ ॥ स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर व गूर्जरचक्रवर्त्तिसचिवः श्रीवस्तुपालः कविः । प्रातः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता माधत्ते विभुतां च ताण्डवयति श्रेयः श्रियं पुष्यति ॥ इति महामात्यश्रीवस्तुपालविनिर्मितमम्बिकास्तोत्रम् ॥ Jain Education International [ त्रयोद For Private & Personal Use Only ॥ १ ॥ ॥ ३ ॥ 11 8 11 ॥ ६ ॥ ॥ १० ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy