SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥८ ॥ मनोरथमयं श्रीआदिनाथस्तोत्रम् । [प्रमोद श्रीगोप्मभिरौप्मलेषु धनिनामीर्थ्यानलज्वालया, जिह्वालेषु मृगीदृशामनुशयामायितेषु द्विषाम् । वक्त्रेषु ग्लपितामिमां त्रिजगतीनिस्तन्द्रचन्द्रोदये, देव श्रीविमलाद्रिकेतन ! कदा दास्ये त्वदास्ये दृशम् ? क्रोधेन ज्वलितो हतोऽहमिषुभिः पञ्चेषुणा पञ्चभिः, बद्धो मोहमहाद्विषा च विषयग्रामं प्रकामं श्रितः । तद् ध्वस्तान्तरवैरिवार ! भुवनस्वामिन् ! सनाथे त्वया, दुर्गे श्रीविमलाद्रिनामनि सुखं स्थातास्मि सुस्थः कदा ? आस्यं कस्य न वीक्षितं ? क न कृता सेवा ? न के वा स्तुताः ?, तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ! । तत् त्रातर् ! विमलाद्रिनन्दनवनीकल्पैककल्पद्रुम !, त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ? संसारे सुखहेतुवस्तुविषयैरुत्सङ्गितैः सङ्गतै दत्ता देव ! त्वदन्यदेव तदियं वाञ्छा ममोत्सेकिनी । श्रेयोवैभव ! नाभिसम्भव ! भवाकूपारपारङ्गम !, श्रीशत्रुञ्जयमण्डनेन भवता भावी कदा सनमः ? ॥१०॥ एताः शमामृतरसेन हृदालवाले, संवर्धिताः पृथुमनोरथवल्लयो मे । विश्वैकमित्र ! भगवन् ! भवतः प्रसादाल्लोकोत्तरैः फलभरैः सफलीभवन्तु ॥११॥ धर्मध्यानमना मनोरथमयं स्तोत्रं युगादिप्रभो____ श्चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्रातः प्रातरधीयमानमनघां यच्चित्तवृत्तिं सता माधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ॥ इति गूर्जरेश्वरमहामात्यश्रीवस्तुपालविरचितं मनोरथमयं विमलाचल तीर्थमण्डनश्रीआदिनाथ जिनस्तोत्रम् ॥ ॥ १२ ॥ १ अयं श्लोकः प्रबन्धकोशे ११४ तमपृष्ठे २९१तमः, पुरातनप्रबन्धसंग्रहे ६० तमपृष्ठे १७२ तमः वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy