SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १८ भद्रबाहुसंहिता [ ११, १४- ३१, १२, १-४ १४ १५ १६ १७ १८ १९ २१ २२ यदा गन्धर्वनगरं सप्राकारं सतोरणम् । * दृश्यते तस्करान् हन्ति तदा यवांत (यान् वन ) वासिनः ॥ + विशेष्यतापसव्यं तु गन्धर्वनगरं यदा । परचक्रेण महता नगरं परिवार्यते ॥ गन्धर्वनगरं क्षिप्रं दक्षिणे जायते यदा । स्वपक्षागमनं चैव जयं वृद्धिं जलं वहेत् ॥ यदा गन्धर्वनगरं प्रकटं' तु दवाग्भिवत् । दृश्यते पुररोधाय तद्भवेन्नात्र संशयः ॥ अपसव्यं विशीर्णं' 'तुं गन्धर्वनगरं यदा । तदा विलुप्यते राष्ट्रं बलक्षोभश्च जायते ॥ यदा गन्धर्वनगरं प्रविशेच्चभिदक्षिणम् । अपूर्वा लभते राजा तदा स्फीतां वसुन्धराम् ॥ सध्वजं सपताकं वा सुस्निग्धं सु[ प्र ]तिष्ठितम् । शान्तां दिशं प्रपद्येत राजवृद्धिं तदाऽऽदिशेत् ॥ २० यदा शुभैर्घनैर्मिश्रं सविद्युत् सबलाहकम् । गन्धर्वनगरं स्निग्धं" विन्द्यार्बुदकसंप्लवम् ॥ सध्वजं सपताकं वा गन्धर्वनगरं यदा । दीप्तां दिशं समाश्रित्य नियतं राजमृत्युदम् ॥ विदिक्षु चैव सर्वासुं गन्धर्वनगरं यदा । संकरः सर्ववर्णानां तदा भवति दारुणः || द्विवर्ण वा त्रिवर्णं वा गन्धर्वनगरं यदा । चातुर्वर्ण्यमयं भेदं तदात्रापि विनिर्दिशेत् ॥ अनेकवर्णसंस्थानं गन्धर्वनगरं भवेत् । क्षुभ्यन्ते तत्र राष्ट्राणि ग्रामाश्च नगराणि च ॥ सङ्ग्रामाश्वानुवर्तन्ते मांस- शोणितकर्द्दमाः । एतस्मिंल्लक्षणो त्पाते भद्रबाहुवचो यथा ॥ रक्तं गन्धर्वनगरं क्षत्रियाणां भयावहम् । पीतं वैश्यानं निहन्त्याशु कृष्णं शूद्रान् सितं द्विजान् ॥ २७ अरण्यानि तु सर्वाणि गन्धर्वनगरं यदा । आरण्यं जायते राष्ट्रं अचिरान्नात्र संशयः ॥ अम्बरेषूदकं विद्याद् भयं प्रहरणेषु च । अग्निजेषूपकरणेषु भयमग्नेः समादिशेत् ॥ शुभाशुभं विजानीयाश्च्चातुर्वण्यं यथाक्रमम् । दिक्षु सर्वासु नियतं भद्रबाहुवचो यथा ॥ उल्कावत् साधनं दिक्षु जानीयात् पूर्वकीर्तितम् । सर्वगन्धर्वनगरं यथावदनुपूर्वशः ॥ २३ २४ २५ २६ wwwww.ww २८ २९ ३० www ३१ ॥ इति नैर्ग्रन्थे भद्रबाहु के निमित्ते गन्धर्वनगरं नाम एकादशोऽध्यायः ॥ अथातः संप्रवक्ष्यामि गर्भान् सर्वान् सुखावहान् । भिक्षुकानां विशेषेण परदत्तोपजीविनाम् ॥ ज्येष्ठा - मूलममावास्यां मार्गशीर्षं प्रपद्यते । मार्गशीर्षप्रतिपदि गर्भाधानं प्रवर्तते ॥ दिव समुत्थितो" गर्भे रात्रौ विसृजते जलम् । || रात्रौ समुत्थितश्चापि दिवा विसृजते जलम् ॥ सप्तमे सप्तमे मासे सप्तमे सप्तमेऽहनि । गर्भाः" पाँकेऽभिगच्छन्ति यादृशं तादृशं फलम् ॥ 1 1 9A * In C the following latter half is found :- तदाश्वपक्षगमनं जयं वृद्धिं बलं वदेत् ॥ 1 A तस्करो । 2 A ये वत्त° । † C The followinng two sts. are not found in C. 3B परिवर्जयेत् । 4 A तुष्टिं । 5-6 C पांशुधूम ; D सुप्रकरं । 7C पुरतो वायु । 8 C तद्भयो । तु सीर्ये । 10 C विसीर्येत । 11 A D निवेश्यतेऽभि; B निवेक्षते । 12 A साध्यं; B तेषां D तां । 13 A these two letters are missing. 14 C विधात् । 15 C दृश्यते । 16 A छत्रभङ्गदम्; C राजा विनश्यति । 17 A तद्दिक्षु | 18 C वसु । 19 C पर्वासु + C The second half of this st. and the first half of the following st. are missing in this Ms. So the second half of st. 24 becomes the second half of st. 23. 20 A क्षुध्यन्ते । 21 A C°° § DThe following four sts are not found in this Ms. 22 A शूद्रान् 24A अन्तरेषु; B अवरेषु । 25 B प्रकरणेषु । 26 A ज्येष्ठ; C ° तेजो° । TC This second half is not found in this Ms. 27 B समंसु । 28 A भिक्षाचराणां । 29 C प्रवर्त्तते । 30 A दिवसो । 31 A सुस्थितो | || C This second half is not found in C so that the first half of every succeeding st. becomes the second half of the preceding st. in C. 32 A गर्भो । 33 A not found here; C फलं । 34 C प्रयच्छन्ति । । 23 C नियमेन न I Jain Education International १ २ ३ ४ For Private & Personal Use Only www.jainelibrary.org
SR No.002917
Book TitleBhadrabahu Samhita
Original Sutra AuthorBhadrabahuswami
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages150
LanguageHindi, English
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy