SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ संकीर्णश्लोकाः। मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः । • जरया ग्रस्तदेहस्य यात्यल्पस्य च विंशतिः ॥ ६५६ ॥ मुण्डं शिरो वदनमेतदनिष्टगन्धं गात्रं मलेन मलिनं गतसर्वशोभम् । भिक्षाटनेन भरणं च हतोदरस्य कष्टं तथापि मनसो मदनेऽस्ति वाञ्छा।।६५७॥ मुधा मुग्धे दृष्टिं तरलतरतारां वितनुषे यथा वृत्तिः पूर्वं मम न मनसः संप्रति तथा । स एवाहं सैव खमसि पुनरन्तः सति शिवे मनोभूतो भूयः प्रविशितुमलं दाहचकितः ॥ ६५८ !! मूर्खत्वं हि सखे ममातिरुचिरं मूर्खस्स चाष्टौ गुणा आलस्यं बहुभोजनं मुखरता रात्री दिवा सुप्तता। कार्याकार्यविचारणैकबधिरो मानापमानौ समौ विद्याशास्त्रविनोदगीतरहितो मूर्खः सुखं जीवति ॥ ६५९ ॥ मृत्योः सेनां किमेनां न कलयसि जरां वायुवाहाधिरूढां प्रौछा[ढा?] भोगान् पुरोगान् नगरमपि नवद्वारमार्गः प्रविष्टान् । दन्तान् पातान् दिगन्तान् भयचकितविपर्यस्तवेशांश च केशान् सुप्तोऽस्यद्यापि जीव स्मरसि न चरणम् त्वं कुतो माधवस्य ॥ ६६०॥ मृदुत्वं मृदुभिः श्लाघ्यं काठिन्यं कठिने जने ! भृङ्गः क्षिणोति काष्ठानि कमलानि दुनोति न ॥ ६६१ ॥ यं शैवाः समुपासते शिव इति ब्रह्मति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशास्त्रनिरताः कर्मेति मीमांसकाः ___ सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ६६२॥ यत्नः कान्तासुखो श्लिष्टं यत्नः संस्कृतवाक्य ह । यत्र गीतरसौ भिन्नः तच्छत्रं वितरं विदुः ।। ६६३ ॥ 656 ISM Kalankar195 V1:8 (1:21). 657 D and Lin930/3972), - BIS. 4896 (acld). Subhash.16. 658 Jod3 V119; Meh V107. - ") पुरतो तिष्टति शिवे. - 4) मनो भूनों भूयः Lim885/1 V.02. 659 BORI326N104. -- TIS. 4910 (4733). Udbhata in SKdr. under निश्चिन्त..Subash.109(with our readings):URB.p.4166%3 SRK. p.36.21(BIS:); SS.10.13; SN. 699%3 BI'S.i.sa.13% BSSD.2.1.132aSSV,767%3 JSV.209.1. 660 Meh V84. 661 Bik3276Nextra (f. I0a. marg.). • 662 RASB9510N1. -SRB. p. 15.27; SS. 2.58%3 JSV.1. 313; Hanuman nnistak 1.3. 663 FESPONag1087598100, Corrupt); Bik32755109. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy