SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रसरिरचित परे लोके यात्रां विदधतममुं यद्यहमनुव्रजेयं नो पूष्णः कुलमपतुलं स्यान्मलिनितम् ॥ ७॥ ( सर्वे मन्दस्वरं रुदन्ति ।) लक्ष्मणः- हनूमन् ! उत्थापय मां येनाऽऽर्यपादौ स्पृशामि । सुग्रीवः- ( साश्रम् ) कुमार ! शयित एव वैनयिकमाचर । लक्ष्मणः- विभीषण : करौ मे शिरसि निधेहि । (बिभीषणः सबाप्पं तथा करोति ।) लक्ष्मणःशुश्रूषाश्रमतो जडत्ववशतश्चापल्यतो बाल्यतो, वैयाल्येन भुजामदेन ललितारम्भेण मान्येन वा। वाक-चेतस्तनुभिर्यदस्मि विनयभ्रंशस्पृहां लीढवान्, आर्येण प्रियबान्धवेन विधुरे तन्मर्षणीयं मयि ॥ ८ ॥ (रामस्तारस्वरं प्रलपति ।) बिभीषणः -- देव ! समाश्वसिहि समाश्वसिहि । रामः-( सगद्गदम् ) भ्रातर्मा व्यसनाब्धिमग्नमधुना हातुं न ते युज्यते, त्वदोर्दण्डबलेन राक्षसकुले ख्यातोऽस्म्यहं विक्रमी । द्राग निद्रां तदिमां विमुश्च यदहं न्यासीकृतस्तेऽम्बया, __ बाष्पाव्यक्तगिरा वनाय चलतस्तद्वत्स ! किं विस्मृतम् ? ॥१॥ लक्ष्मणः -(सक्रोधम् ) आर्य ! ब्रूहि, क एष कातरदशाशंशी शुचां सङ्ग्रहो ?, दैन्यं मास्म कृथा वृथा गिरि, हहा ! ज्येष्ठे कठोरं वचः। धिर मां वैनयिकातिपातनिरतं, कस्कोऽत्र भोः !, सत्वरं लीढाग्नीः समिधः समाहर, हरे येनाऽऽत्मनः कल्मषम् ॥ १०॥ रामः- हा वत्स ! विनयमण्डन रघुनन्दन ! कामवस्थामधिगतोऽसि । लक्ष्मणः-विभीषण ! । बिभीषणः- आदिशतु कुमारः। लक्ष्मणः-सुग्रीव !। सुग्रीवः-एपोऽस्मि । १) रामः सासं प्र° उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy