SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२ महाकविश्रीरामचन्द्रसरिरचितं कलकण्ठः - किमेप लङ्कापतिर्वैदेहीविरहानलाभितापमनुभवति ? । ( ततः प्रविशति रावणः कुन्तलक | ) रावणः - कुन्तलक ! दम्भोलिदण्डोsपि पुरा व्यधत्त, बाधां न यस्याssवसौण्डदोष्णः । तां तस्य सीतां स्मरतः प्रकामं, कामेन का मे न कृता व्यथाऽन्तः ? ॥ ५ ॥ ( विमृश्य ) अभिनवावतार शृङ्गारकमनीयकान्तिर्मधुरयं मधुरतरुणिमाया विदेहदुहितुः कामपि मुदमावहति वा न वा ? | कुन्तलकः - नवावतारहृयोsपि मधुस्तस्या मृगीदृशः । त्वां विना भूर्भुवः स्वः श्रीकान्त । कां तनुतां मुदम् ? ॥ ६ ॥ रावणः - ( साधासम् ) कञ्चिदस्मविरहानलो मैथिलीमपि विवयति ? | कुन्तलकः -यथा कथां प्रथयति त्रिजटा तथा यदि सत्यं तदा मैथिलीमपि युष्मद्विरहानलो वियतीति वितर्कयामि । रावणः - कथयति जानकी वियोगवार्त्ता प्रतिवासरं त्रिजटा । वयं पुनः कामपि कामार्त्तिं न लक्ष्यामः । कुन्तलकः - किमेवमादिशति देवः ? | प्रायेण पुंसि परिरम्भण- चुम्बनानि, संतन्यते स्फुरति वामदृशां स्मरार्त्तिः । एतास्ततः कतिपयाः प्रियविप्रयोगे, कालं क्षिपन्ति कुसुमेषुविकारवन्ध्याः ॥ ७ ॥ रावणः - ( साक्षेपम् ) रावणः खल्वहमनिच्छन्तीनां परयुवतीनामालिङ्गनचुम्बन दीन कामार्त्तिप्रबोधोपायान् प्रसभं किमनुतिष्ठामि ? | (ऊर्द्धमवलोक्य ) कथमयं मरीचिमालाभिरपनयन्नम्भोजखण्डस्य वदनमुद्रामुदयाचलचूलिकां समलङ्करोति विश्वैकलोचनं विरोचनः ? । व्यर्थ स्मापयसे बहूनि कमलान्यादित्य ! तन्मैथिलीवक्राम्भोरुहमेकमेव यततां स्मेरं विधातुं भवान् । स्मेरेऽस्मिन् परितापकारिणमतिक्षुद्रं क्षपायाः पतिं, क्षित्वा त्वां क्षणदाखपि प्रथयति स्फूर्जत्प्रभं रावणः ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy