SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ रघुविलास-नाटकोद्धारः- अष्टमोऽङ्कः । रामः-( सविनयरोमाञ्चं सीतां प्रति ) प्राणान् यद् विरहेऽप्यहं विधृतवान् देवि! प्रियप्राणित स्तत् क्षन्तव्यमशेषमेष मम यः स्मेराक्षि ! नैव क्षुधाम् । सौमित्रे कपिभर्तुरस्य च मनःप्रीत्यैव देहि प्रिये ! हस्तिस्कन्धमलङ्कुरुष्व ननु ते पूर्णः प्रतिज्ञाविधिः ॥ २८ ॥ सुग्रीवः-देव ! किं ते भूयः प्रियमनु(?मुप)करोमि ? । रामः-किमतः परमपि मे प्रियमस्ति ? । जाम्बवन्तः-देव ! तथापीदमस्तु -- कल्याणं भूर्भुवः स्वः प्रसरतु विपदः प्रक्षयं यान्तु सर्वाः सन्तः श्लाघां लभन्तामपचयमयतां दुर्मतिर्दुर्जनानाम् । धर्मः पुष्णातु वृद्धिं प्रलयमनुकलं कल्मषानि वजन्तु प्राप्य खातव्यलक्ष्मीमनुभवतु मुदं शाश्वती रामचन्द्रः ॥ २९ ॥ ( इति निष्क्रान्ताः सर्वे । ) ॥ इति अष्टमोऽङ्कः ॥ ॥ समाप्तोऽसौ रघुविलासनाटकस्योद्धारः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy