SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२ रघुविलास नाटकोद्धारः - सप्तमोऽङ्कः । मयः - ( मन्दोदरीं प्रति ) वत्से ! उठवण्ठनटपेटकसूत्रधारः सीताखयग्रहमहग्रहिलः पतिस्ते । अस्मादृशां किमधुना मधुना समिद्धकामेन्धनान्धलमतिः स गिरः शृणोति ? ॥ ५ ॥ मयः - ( रावणं प्रति ) न खलु तनुते देवः कीर्त्तेरनौपयिकीः क्रियाः स्वयमपि ततो वाच्यं किञ्चिचकास्ति न मादृशाम् । उचितमनिशं श्रोतुं भूम्ना नया ऽनयदृश्वनां, तदपि जरतां रक्षोवंशप्रियङ्करिणीर्गिरः ॥ ६ ॥ मारीचः - विन्दन्तु सौहार्दमथाप्यसौहृदं महीभुजः स्वैरविहारचेतसः । अंतामसीमर्हति शंसितुं पथैः परो रजोभिः सचिवः पुनः क्रियाम् ॥ ७ ॥ रावण - ( सप्रमोदम् ) यथारुचितमुच्यतां किमसुखाकरं वर्त्मनः ? प्रियाकरमुपासितुं प्रवयसां वयं कर्मठाः । taraप निषादिनो गजमिवोन्मदिष्णुं नृपं प्रतीपयितुमुत्पथादनिशमीशैते मन्त्रिणः ॥ ८ ॥ मयः - देव ! सीतापहारमतितरां जुगुप्सते लङ्कालोकः । रावणः - (सावहेलम् ) अविदितपथः प्रेम्णां बाह्योऽनुरागरुजां जडो वदतु दयिता मैत्रीवन्ध्यो यथाप्रतिमं जनः । मम पुनरियं सीता राज्यं सुखं विभवः प्रियं हृदयमसवो मित्रं बन्धू रतिर्धृतिरुत्सवः ॥ ९ ॥ ( पुनः सखेदम् ) आर्य ! किमेकमस्य पामरप्रकृतेर्लङ्कालोकस्य विचारचातुरीवैमुख्यमुद्भावयामि ? | अस्यां प्रेमगमेव वाग्मनसयोरुत्तीर्णमन्यस्य चेद् वैदेयां नयनैकलेालवणप्रारोहभूमौ भवेत् । कापेयं परिरभ्य स प्रकटयनुल्लुण्ठभूयं हठात् किञ्चित्कामितमादधीत कृतवान् वेधास्तु मां रावणम् ॥ १० ॥ १ वसन्तेन । २ न उपायेभ्यो हिता अनौपयिकी । ३ तमोर हिताम् । ४ निवर्त्तयितुम् । ५ समर्था भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy