SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ रघुविलास नाटकोद्धारः - षष्ठोऽङ्कः । उत्तिष्ठ स्मर रक्षसो दशमुखीसंहारिणं पत्रिणं वैदेही यदियं हृता परिभवः सोऽयं न वत्सस्य किम् ? ॥१४॥ रामः-( सवैकल्यम् ) तर्हि यावन्निद्रायति कुमारस्तावदहं पितृभ्यो गत्वा समरसङ्कथां विज्ञपयामि। (पुनर्लक्ष्मणं प्रति ) वत्स ! त्वां समरे विहाय निहतं यातेन तां खां पुरी मातुस्त्वन्मुखवीक्षणोत्सुकशः किं ब्रूहि वाच्यं मया ?। व्यक्तं मे वदनं न पश्यति पुरा बन्धुक्षयाधायिनः कौशल्याऽपि रघूद्भवः किमपरं ? सर्वोऽपि लजिष्यते ॥१५॥ मातः! क्षत्रियपक्षपातनिरते भूदेवते ! भ्रातरौ सूर्याचन्द्रमसौ ! सखे ग्रहगण ! व्यालम्ब्य लम्बां कृपाम् । लङ्कां दत्त बिभीषणाय, दिशत क्षेमाणि सौमित्रये, भिक्षां प्राणमयीं प्रयच्छत शुचा क्षामाय रामाय च ॥ १६ ॥ (नेपथ्ये) शक्तिप्रोतमवेक्ष्य लक्ष्मणमयं वक्षाकपाटोदरं देवः श्रीरघुसन्ततिप्रसविता प्रम्लानवाम्बुजः। शल्योद्धारविधायिनी मृगयितुं स्फूर्जत्प्रभामौषधि कामप्यञ्चति पश्चिमाचलवनक्षोणि प्रभाणां पतिः ॥ १७॥ जाम्बवन्तः-शुभोदेकं मागधः पठितवान् । तदिदानी शुचमपहाय क्षणं सभामश्रमोतिवाह्यताम् । रामः- यदावेदयति मन्त्री तदस्तु । ( निष्क्रान्ताः सर्वे ।) ।। इति षष्ठोऽङ्कः॥ १ गतेन । २ "उदर्कस्तद्भवं फलम्"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy