SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १० रघुविलास - नाटकोद्धारः - द्वितीयोऽङ्कः । [ अवलोकिनी विद्या रावणं प्रति स्वस्फूर्त्तिं कथयति-] सूर्याचन्द्रमसौ ग्रसे, विघटये रात्रिन्दिवस्यावधिं, पत्युर्भागभृतां हरे फणमणीन् द्यावाभ्रुवौ मीलये। मानस्थानविपर्ययेण विदधे स्त्रीपुंसयोर्लक्ष्मणी " रक्षोराज ! नियोजय कचिदिमां कृत्ये निजां किङ्करीम् ॥ २३ ॥ [ रावणेन अवलोकिनी पार्श्वात् कारितकूटसिंहनादावसरे भयत्रस्तायाः सीतायाः प्रति रामवाक्यम् - ] रणरसिकभुजेभ्यो विक्रमोत्ताननेत्राः कति कति न रघुभ्यस्त्रासमासादयन्ति ? | यदि युगमधिजग्मुस्ते खराद्यास्ततः किं ? स्वयमथ स दशास्यः प्राप कोपात् ततः किम् ? ॥ २४ ॥ ( नेपथ्ये ) हंहो ! शम्बूककण्ठव्ययचतुरकरं क्रूरमेनं मनुष्यं गृह्णीत च्छिन्त भिन्त क्षणुत दलयत खैरमहाय सैन्याः ! भग्ने कोदण्डदण्डे शरधिशरभरे वह्निबाणेन दग्धे रे रे दास ! क यासि ? स्मर किमपि खरः सोऽहमग्रे कृतान्तः ॥ २५ ॥ ( - इति श्रुतेरनन्तरमेकाकिनीं सीतां लतागृहे मुक्त्वा चापमादाय रामो निष्क्रान्तः । ) रावणः - ( सप्रमोदम् ) सम्प्रति रावणस्यावसरः । ( विमृश्य ) सती खल्वियम्, न शक्यते सावधानाऽपहर्त्तुम् । भवतु | ( उच्चैः स्वरम् ) - आः क्षुद्रे म्लेच्छपत्नि ! स्मर गुरुविधुरा दैवतं किञ्चिदिष्टं लोलद्दम्भोलि केलिव्रणितकरतलत्रातुमिन्द्रोऽपि नालम् । शम्बुप्राणप्रयाणभ्रकुटि बहु लितक्रोधमैत्री करालः कालः कालुष्यभाजां हरति खलु खरस्तूलहारं शरस्ते ॥ २६ ॥ ( सीता सभयमाकर्ण्य मूर्च्छति रावणस्तामादाय पुष्पकमधिरोहति । ) सीता - ( चेतनामास्थाय साक्रन्दमुच्चैः स्वरम् ) 'हा अञ्जउत्त ! हा वत्स लक्खण ! हा ताय जणय ! हा भाय भामंडल ! हा वणदेवयाओ अंबाओ ! रक्खेह में असरणं रक्खसेण निअंतीं । 1 ) हा आर्यपुत्र ! हा वत्स लक्ष्मण ! हा तात जनक ! हा भ्रातर्भामण्डल ! हा वनदेवता अम्बाः 1 रक्षत मां अशरणां राक्षसेन नीयमानाम् । १ स्त्री-पुरुषलिङ्गे । २ महाकष्टपीडिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy