________________
5
10
३०
15
महोपाध्याय मेघविजयगणिकृतं
[ चतुर्थः सर्गः
मुनिकुवलय सोमः सोमंतः सुन्दराह्नः प्रभुरथ मुनिशब्दात् सुन्दरः सूरिचक्री | श्रमणगगनरत्नं रैनतः शेखराऽऽख्यस्तदनु च वरलक्ष्मीसागरः सूरिरासीत् ॥ १५ ॥ तदनु सुमतिसाधुर्माधुरीपूर्णवाक्यस्समजनि विमलः "श्रीहेमपूर्वस्ततोऽपि । तदनु विमँलनामाऽऽनन्दशब्दाद् यथार्थं तपगणगुणसंज्ञां यश्चकार क्रियाभिः ॥ १६॥ तदनु विजयदानः सूरिश्चावदानः प्रभुरभवदतः श्रीहीरनामा गणस्य । . अकबरनरराजां यः समाजं ररञ्ज प्रकृतसुकृतवाग्भिः पुण्यनैपुण्यभाग्भिः ॥ १७ ॥ हरिरपि दिवि सूर्यस्य सत्कीर्तिवार्त्ता सदसि विबुधसुरेर्वाचि सम्यग् निशम्य । रमयति वसुधायां खं मनोऽमुं दिदृक्षुर्नमयति न सुधायामप्सरस्संनिधायाम् ॥ १८ ॥ वदति निंगदसिद्धन्यायतोऽप्यस्य धर्मोन्नयनविजयवात्तां गीष्पतिर्वर्ष कोट्या | नवनवरसरीत्या संसदि स्वर्गराजः प्रभवति न तथापि व्यापिनीं तां समाप्तुम् ॥ १९॥ कैलिललितममुष्मिन्नभ्युदीनेऽपनीतं
श्रमणमणिषु साक्षाद् वीररूपे गणीन्द्रे ।
अविकृतकृतलक्ष्म्या जङ्गमः सङ्गमोऽभूत् प्रतिपदमपि सुरेर्भाग्ययोगैः स्फुरद्भिः ॥ २० ॥
अचरमजिनवारे या न वार्डऽरेक्यते 'ज्ञेर्जन वृजिननिहन्त्री धर्मलीला सुशीला । परमगुरुविहारेऽभ्युद्धृतार्ह विहारे समजनि जनितश्रीः साऽप्यशेषाऽविशेषात् ॥ २१ ॥ कैविभिरभिनवार्थैर्यत् प्रवृत्तिः प्रबद्धा सहृदयजन भाव्ये हीरसौभाग्यकाव्ये । अथ कथमहमस्या विस्तरायोन्नताऽऽस्यः पशुशिशुरिव दृश्यः स्यां बुधस्योपहास्यः ॥२२॥
[15] 1 'मुनिकुवलयसोमः ' मुनयः साधवस्ते एव कुवलयानि कुमुदानि तेभ्यश्चन्द्र इव । (५०) 'सोमतः सुन्दराहः' श्रीदेवे न्द्रसूरिपट्टे पञ्चाशत्तमः श्रीसोमसुन्दरसूरिरजनि । (५१) 'मुनि - शब्दात् सुन्दरः' श्री सोमसुन्दरसूरिपट्टे एकपञ्चाशत्तमः | श्रीमुनिसुन्दरः सूरिर्बभूव । (५२) ' रत्तः शेखराssख्यः' श्री मुनिसुन्दर सूरिपट्टे द्विपञ्चाशत्तमः श्री रत्न शेखरसूरिः संभूतः । (५३) 'वरलक्ष्मी सागरः' श्रीरत्नशेखरसूरिपट्टे त्रिपञ्चाशत्तमः श्रीलक्ष्मीसागरसूरिरजायत ।
[ 16 ] (५४) ‘सुमतिसाधुः' श्रीलक्ष्मीसागरसूरिपट्टे चतुपञ्चाशत्तमः श्रीसुमतिसाधुसूरिः संजज्ञे । (५५) 'विमल: श्री हेमपूर्वः श्रीसुमतिसाधुसूरिपट्टे पञ्चपञ्चाशत्तमः श्रीहेमविमलसूरिर्बभूव । (५६) 'विमल नामाऽऽनन्दशब्द० ' श्रीहेमविमलसूरिपट्टे आनन्द विमलसूरिर्बभूव ।
[17] (५७) 'विजयदानः सूरिः' श्री आनन्दविमलसूरिपट्टे सप्तपञ्चाशत्तमः श्री विजयदान सूरिबंभूव । (५८) 'श्रीहीरनामा' श्री विजय दानसूरि पट्टेऽष्टपञ्चाशत्तमः श्रीहीर विजयसूरिः संजज्ञे । 2 'उच्चावदानः' उच्चैः प्रशस्तवर्म यस्य सः । ' प्रकृतसुकृतवाग्भिः " प्रकृतानि च तानि सुकृतानि पुण्यानि च प्रकृतसुकृतानि वाचः वचांसि येषां तैः ।
Jain Education International
For Private
[19] 3 'निगदसिद्धन्यायतः ' सत्यकथनन्यायात् 'निगदः रोकडु' इति भाषायाम् । 4 'धर्मोन्नयनविजयवार्त्ताम्' धर्मस्योनयनमुन्नतिस्तस्य विजयवार्त्ता विजयकथा ताम् । 5 'गीष्पतिः ' बृहस्पतिः 'गी हत्योः पतिः' इति हैमः [ अभि० चिं० कां० २ ० ३३ ] 6 'नवनवरसरीत्या' नवीनो वीरशृङ्गारादिरसः रीतिः गौड्यादिस्तया ।
[20] 7 'कलिललितम्' कलिरन्त्ययुगं तस्य ललितं लीलां क्रीडामित्यर्थः । 'कलिबिंभीत के शूरे विवादेऽन्त्ययुगे युधि' इति हैमः [ अने० सं० कां० २ श्लो० ४८९ ]।
[21] 8 'आरेक्यते' शक्यते । 'रेडू' शङ्कायामिति धातोः क्यपि वर्तमाने रूपम् । 9 'ज्ञ' पण्डितैः । 10 'जनवृजिननिहन्त्री' जनानां वृजिनानि पापानि दुःखानि वा निहन्त्री नाशकर्त्री । 11 'अभ्युद्धृतार्हद्विहारे' अभ्युद्धृताः जीर्णोद्धाराः कृता अर्हतां विहाराचैत्यानि येन स तस्मिन् ।
[22] 12 'कविभिः ' देवविमल - हेम विजयादिकविभिः- हीरसौभाग्य- विजयप्रशस्त्यादिमहाकाव्यानां कर्तृभिः कविभिः । 13 'अस्याः ' प्रवृत्त्याः
Personal Use Only
www.jainelibrary.org