________________
5
10
15
१६
महोपाध्यायमेघ विजयगणिकृतं
सौधर्मरूपं श्रमणाश्रमेषु श्राद्धास्तथेशानदशा रसाऽऽव्याः । स्याद् ब्रह्मभूयं सुरतोपशान्ते संदानत प्राणतता विनेये ॥ १८ ॥ महेन्द्रलक्ष्मीर्धरणीधवेषु सनत्कुमाराः पवनाधिकाराः । चक्रे सहस्रारविधिश्च शुक्राधिकत्वमङ्गे रैंसिकासुभाजाम् ॥ १९ ॥ ऐश्वर्यलक्ष्मी धन-धर्म- कीर्त्ति प्रज्ञा-प्रभा वैभव-दर्शनेषु । परिस्फुरत्यच्युतता प्रजानामस्मिंस्ततः किं दिवि" वस्तु शिष्टम् ॥ २० ॥ त्रिभिर्विशेषकम् ॥
खानिः सुखानां विषयोन्मुखानां सुलोचनौद । रिकदेहवृत्त्या । न साधु लोकेऽथ सुखं न किञ्चिद् येनोपमेयो भरतप्रदेशः ॥ २१ ॥ एको गुरुः पाठयिता न नव्यं शास्त्रं कुतस्तद् दिवि बोधवृद्धिः । नाम्ना न तत्त्वा विबुधाः सुधाशा यल्लेखशालाजुष एव नित्यम् ॥ २२ ॥ यस्मिन्ननेके गुरवो विवेके प्रत्याश्रमं सातिशया नयार्थम् । विधाय शास्त्राणि नवानि बालानध्यापयन्ति भरतेऽतिदक्षाः ॥ २३ ॥ धनैर्न धर्मैर्न गुणैर्न बोधैः खर्गाधिकः स्याद् भरतात् ततोऽदः । शङ्के शशाङ्कार्कमुखैः प्रकाश्यं वर्षान्महेन्द्रो भजतीव वर्षम् ॥ २४ ॥ तस्मिंस्तृतीयारकदेश्यकाले मुख्योऽर्हतां श्रीवृषभो बभूव । धर्म्यस्थितीनां जनजीविकानां कर्त्ताऽपहर्त्ता युगलस्थितीनाम् ॥ २५ ॥ कल्पद्रुमाणां परिणामसारैरभीष्टकारैस्सम होपकारैः । सम्भूय भूयः सुखसम्पदर्थं प्रादुष्कृतो दुष्कृतकृन्तनाय ॥ २६ ॥
[18] 1 'सौधर्मरूपम्' सुष्ठु धर्मस्तस्य भावः सौधर्मस्तस्य | भाक्लम् । देवलोकानां नामानुरूपं गुणत्वं तु भरतप्रदेशे एव रूपम् । प्रथमदेवलोकश्च । 2 'श्रमणाssश्रमेषु' साधूनां वसति दृश्यते तस्मात् तेषु खर्गेषु न किञ्चिद्वैशित्र्यं भरत प्रदेशात्" । गृहेषु 3 'ईशानदशा:' इन्द्ररूपाः । द्वितीयदेवलोक । 4 'ब्रह्मभूयम्' ब्रह्मगो भवनं ब्रह्मभूयं ब्रह्मकत्वं मोक्ष इत्यर्थः पञ्चमदेवलोकश्च। 5 ‘सुरतोपशान्ते' संभोगोपरते सति । 6 सदानत-प्राणतता' सुष्ठुरीत्या आनतता समन्तान्नमनक्रिया, प्राणतता प्रकर्षेणाssनमनक्रिया च । नवम दशमखर्गश्च । 7 'विनेये' शिष्ये ।
।
[19] 8 'महेन्द्रलक्ष्मी' महाँथासाविन्द्रश्च महेन्द्रस्तस्य लक्ष्मीः ऋद्धिः । चतुर्थस्वर्गः । 9 'धरणीधवेषु' राजसु । 10 'सनत्कुमाराः' सनन्तो भक्तिमन्तः कुमाराः । सनत्कुमारचक्र वर्त्या - द्यावा । तृतीयदेवलोकश्च । 11 'सहस्रारविधिः सहस्र प्रकारेण मङ्गलविधिः । अष्टमस्वर्गश्च । 12 'शुक्राधिकत्वम्' बलाधिकत्वम् । सप्तमवर्गः । 13 'रसिकासुभा जाम्' रसिकप्राणभृताम् ।
[20] 14 'अच्युतता' न च्यवत इत्यच्युतस्तस्य भावः । द्वादशदेवलोकश्च । 15 'दिवि' खर्गे । 16 शिष्टम्' "एषु त्रिषु श्लोकेषु द्वादशदेवलोकानां केवलं नामरूपत्वमस्तीति निर्दिष्टं न गुण
Jain Education International
For Private
[ द्वितीयः सर्गः
इति हैमः [ अभि० चिं० कां० ४ श्लो० १०२ ]। 18 'औदारि[21] 17 'खानिः' आकरः । " स्यादाकरः खनिः खानिर्गजा " कदेहवृत्त्या औदारिकशरीरप्रकारेण । यथोक्तम् —“औदारिकम्— उदारं बृहदसारं यद् द्रव्यं तन्निर्वृतमौदारिकमसारस्थूलद्रव्य वर्गणासमारब्धमौदारिकप्रायोग्यपुद्गलग्रहण का रण पुद्गल विपाकयौदा रिकशरीरनामकर्मोदयनिष्पन्नम्” ।
[22] 19 'लेखशाला ०' स्वर्गः कुमारकपाठस्थानञ्च । [23] 20 'भरते' क्रीडाविशेषे क्षेत्रे वाऽतिदक्षाः । [24] 21 ‘शशाङ्कार्कमुखैः' चन्द्र-सूर्यप्रमुखैः ।
[25] 22 'तृतीयाऽऽरक०' 'सुषमा' नामकमारकम् । “ तिस्रः कोटिकोट्यः सागरोपमाणां सुषमा 23 'धर्म्यस्थितीनाम्' धर्मानुकूलरीतीनाम् । 24 'जनजीविकानाम्' मनुष्याणामाजीविका इति जनजीविकास्तेषाम् ।
Personal Use Only
www.jainelibrary.org