________________
८०
महोपाध्यायमेघविजयगणिकृतं
[अष्टमः सर्गः भुवनैकरविः कविद्विपैर्वसुधायां बहुधा सुधाशनैः । महसा ह्यभिभूयतेऽन्वहं वितथा नैव तथाऽप्यदःकथाः ॥ १४०॥ कतिचिद्गुणभावनाऽप्यसौ तनुते भागवतीह पावना। स्मरणाऽऽदरणार्थधारणैर्भविनामीहितवस्तु वस्तुतः ॥ १४१॥ श्रीशङ्केश्वरपार्श्वशाश्वतरवेः सर्वाङ्गशोभाभरः
प्राणनत्रिदशेन्द्रसान्द्रमुकुटज्योतिर्भिरभ्यर्हितः। दृष्टः स्पष्टतयाऽनुरक्तमनसा ध्यातः प्रभातप्रियां
ध्येयादू ध्येयमहोदयश्रियमहो ! श्रीजैन भक्तिस्पृशाम् ॥ १४२॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते
श्रीशिवपुरीस्थितश्रीशङ्केश्वरपार्श्ववर्णनो
नामाष्टमः सर्गः ।
10
--*
-
-
[१४.१ "वितथा नैव" सत्या एव । २"अदःकथाः" भमुष्य वार्ता।
[१४२] ३"ध्येयमहोदयश्रियम्" ध्येयो यो महोदयो मोक्षः पक्षे ध्येयः स्वाभीष्टम्तस्य महोदयस्य प्राप्तिः सैव संपत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org