SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह। तत्राभवत्कमरसिंह इति प्रसिद्धः श्रेष्ठी जिनेशपदपङ्कजबद्धरागः । सम्यक् त्रिवर्गनिरतोऽपि सुधर्मकामा प्राग्वाटवंशतिलकः सदनं गुणानाम् ॥ ३ ॥ नाम्ना कुमरदेवीति तस्य जज्ञे सधर्मिणी । शीलादिभिर्गुणैः शुभैः सुलसामनुकारिणी ॥ ४ ॥ तयोस्तनूजाः क्रमशो बभूवुः पञ्चाप्रपञ्चा चरणेन वित्ताः । तत्रापि धुर्यो नयमार्गनिष्ठो देदाकनामा सुगुणैर्गरिष्ठः ॥५॥ द्वितीयः किसानामांकस्तृतीयः सांगणाभिधः । धनपालश्चतुर्थस्तु पञ्चमो भधडाभिधः ॥ ६॥ 5 आद्यस्य शीलपानं वीशलदेवी बभूव कलत्रं (!)। देवगु"................"देवी द्वितीयस्य ॥ ७ ॥ शृंगारदेव्यभिधया शुचिशीला सांगणस्य जायाऽभूत् । धनपालस्य तु दयिता सलषणदेवीति सुयथार्था ॥८॥ आल्हणदेवीसंज्ञा जज्ञे जाया पुनः कनिष्ठस्य । देदाकस्य तनुभुवोऽजयसिंहप्रभृतयोऽभूवन् ॥ ९॥ धर्मकर्मरते नित्यं गुरुलज्जाविभूषणे । देदादीनां वसारो"...................................॥ १० ॥ ....... 'दीक्षां प्रपद्य जनके सुरालये प्राप्ते । देदाकः सकुटुंबः शुश्रावैवं सुगुरुवाक्यं ॥ ११ ॥ 10 विषयसुखपिपासोर्गेहिनः कास्ति शीलं, करणवशगतस्य स्यात्तपो वापि कीदृक् । अनवरतमदप्रारम्भिणो भावनाः का-स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ १२ ॥ धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहै-स्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा, शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ॥ १३ ॥ इति देदाकः श्रेष्ठी श्रुत्वा खकुटुंबसंयुतो मुदितः । समगृहीत सुवृत्तिं सदुत्तराध्ययनसूत्रस्य ॥ १४॥ 15 [५७] श्रीमालज्ञातीय-श्रेष्ठिसरवणसुत...."लेखित-ज्ञाताधर्मकथावृत्ति-पुस्तकप्रशस्तिः । [लेखनकालनिर्देशो नोपलब्धः, परं वर्णनानुसारतः संवत् १४५०-७५ मध्ये ज्ञायते ।] अखंडैर्यः खंडैनैवभिरभितः पिंडितवपुः-सुधाकुंडैः कुंभीनससहकृतैमंडित इव।। सुरैः सेव्यः सर्वैरविजितजरामृत्युचकितैः, प्रभुः स श्रीपार्थो जयति नितमां यत्र सततम् ॥ १॥ 20 उद्दामम्लेच्छकोटिप्रसमरसमरत्रस्तवृंदारकाणां, विश्रामस्थानतां यत् प्रतिपदमगमत् पुण्यलोकैरशोकैः । चंचद्गातरंगोज्ज्वलबहलगुणैर्धाम धर्मश्रियां यत् , श्रीमद् घोघाभिधानं सुललितनगरं खस्तिमन्नित्यमस्ति ॥२॥ __ तस्मिन् रमायाः सदने दवीयो देशस्थवस्तुप्रभुभिः प्रपूर्णे। ___वेलाकुले भूमितले प्रसिद्ध घोघाभिधाने नगरे समृद्धे ॥ ३ ॥-त्रिभिर्विशेषकम् । . वेधा वीक्ष्य कलिप्रचंडभुजगग्रस्तं समस्तं जगत् , तत्राणाय ससर्ज तर्जनपरां यां दुर्जनानां ततः । 25 ज्ञातिं पूर्णमृगांककांतिविशदां श्रीमालसंज्ञामिह, शश्वद्धामविवेकवासभवनं विज्ञानवारांनिधिम् ॥ ४॥ तस्यां ज्ञातौ बृहत्यामतिमतिविभवापास्तवाचस्पतिः श्री-क्रीडागारं गरीयो नरवरनिवहैर्माननीयः सदापि । मंत्री मंत्रप्रबलसुबलवान् धुर्यधैर्यादिवर्यः, सांडाहानः समजनि जनतासेवनीयोऽवनौ वै ॥५॥ श्रियादेवीति तस्यासीद् भार्या भुरिगुणैकभूः । याऽमानदानशीलादिपुण्यैर्जज्ञे प्रसिद्धिभाक् ॥ ६॥ तयोः सुतावजायेतां विख्यातौ क्षोणिमंडले । सरवण-धांधाबानौ प्रधानौ व्यवहारिषु ॥ ७॥ 30 * ताडपत्रात्मक पुस्तकमिदं पत्तने संघवीपाडासत्कभाण्डागारे विद्यते । ८ जे० पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy