SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २२ 10 जैनपुस्तकप्रशस्तिसङ्ग्रह । [२०] श्रीमालवंशीय-श्रे० धनपाललेखित-आवश्यक-पुस्तिकाप्रशस्तिः । [लेखनसमयो नोलिखितः परं १४ शताब्दी सम्भाव्यते ] निश्रेयसःश्रीसदनः श्रीवरः श्रेयसेऽस्तु वः । त्रिलोकीविस्मितानंद रसते यद्वचः सुधां ॥ १. औदार्यादिगुणग्रामरनै रत्नाकरोपमः । श्रीमान् श्रीमालवंशोऽयं विद्यते भूमिभूषणम् ॥ २ तत्रासीद् गुणसंपूर्णः पूर्णसिंहाभिधः सुधीः । तस्य पत्नी यशोदेवी सतीवर्गशिरोमणिः ॥ ३ उदयं नीतो दिनकृत् शशी च तेनेह दीपितो दीपः । नयनं च कृतं जगतां जिनवचनं लेखितं येन ॥ ४ इत्थमाकर्ण्य कर्णाभ्यां सुधारससरस्वतीम् । श्रीमत्कीर्तिसमुद्राणां सद्गुरूणां सरस्वतीम् ॥ ५ धनपालाभिधानेन तयोज्येष्ठेन सुनुना । अनुजस्याथ पुण्याय महीपालस्य धर्मिणः ॥ ६ आशाप्रभाभिधानस्य गृहीतव्रतसंपदः । सूत्रमावश्यकं बंधोलेखितं धर्मशासनम् ॥ ७ मंगलं भवतु सर्वसज्जने मंगलं भवतु धर्मकर्मणि ।। मंगलं भवतु पाठके जने मंगलं भवतु लेखके सदा ॥८ प्रशस्तिः कृतिरियमाशाप्रभस्य ॥ मंगलं महाश्रीः ।। [२१] श्रीमालकुलजात-शोभनदेव-लेखित-शतकचूर्णि-टिप्पनक-पुस्तिकाप्रशस्तिः । [लेखनसमयो नोल्लिखितः, १४ शताब्दी अनुमीयते] श्रीमालकुले विपुले जज्ञे श्रेष्ठी यशोधनः श्रेष्ठः । समभूत्तदीयदयिता जीवहिता नागदेवीति ॥ १ सा चतुरोऽसूत सुतांश्चतुरः श्रीवच्छ इति ततोऽप्यन्ये । सालिग-सोहिग-पासुकसंज्ञाश्च यशोमतिश्च सुता ॥ २ इतश्च – अस्मिन्नेव सुपर्वणि वंशेऽभूदुसभ इति शुभः । तस्य श्रीरिति जाया तयोः सुता वेलुकेत्यस्ति ॥ ३ तां सालिगोऽनुरूपां परिनिन्ये नयवतीं तयोस्तनयः । शोभनदेवो गुरुदेवचरणयुगकमलकलहंसः ॥ ४ स जनन्याः श्रेयोऽर्थ श्रेष्ठमतिः शतकचूर्णि-टिप्पनके । लेषयति स्म ततोऽदान्महिमागणिनीपठनहेतोः ॥ ५ भूमिर्नभः सुमेरुः सवितृशशिनौ चराचरासुभृतः । यावदिह संति लोके तावदियं पुस्तिका नन्द्यात् ॥ ६ 20 25 * पुस्तकमिदं पत्तने संघवीपाडासत्कभाण्डागारे विद्यते । ताडपत्रात्मिका पुस्तिकेयं पत्तने संघवीपाडासत्कभाण्डागारे विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy