SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । सोऽयं सूहवदेवीकुक्षिभवस्य प्रतापसिंहस्य । तनयस्य श्रेयोऽर्थ व्यधापयत्युस्तिकामेताम् ॥ १२ ॥ पुष्पदन्ताविमौ यावद्दीप्रौ ब्रह्माण्डमण्डपे । एषा सुपुस्तिका तावद्धर्मजागरकारणम् ॥ १३ ॥ [ * एतत्पशस्तियुक्ता पुस्तिका पत्तननगरे वाडीपार्श्वनाथमन्दिरस्थे भाण्डागारे विद्यते । ] [८] सुषमिणीश्राविकालेखित-सटीकहैमानेकार्थसंग्रहपुस्तकप्रशस्तिः । [लेखनकाल १२८२ विक्रमाब्द] सुदृढश्रेयोमूलः पराय॑शाखाप्रपंचरोचिष्णुः । वंशोऽस्ति धर्कटानां फलभृदपि न नश्वरप्रकृतिः ॥ १॥ तत्रासीत् पार्श्वनागाख्यः श्राद्धः श्रद्धालुतानिधिः । तस्यांगजः सतां मुख्यो गोल्लः प्रोल्लासिकीर्तिभाक् ॥२॥ जिनदत्तसूरिसुगुरोराज्ञां चूडामणीमिव प्रवराम् । बिभरांचकार निजमूर्ध्नि दलितदारिद्यमुद्रां यः ॥ ३ ॥ 10 यः प्रातरेव रचयांचकार चिंता सधर्मणां नृणाम् । ग्लानानां निःखानां निजौषधाद्यैर्महाश्राद्धः ॥ ४ ॥ पुरे च यः श्रीमरुकोहनामनि क्षोणीपतेः सिंहबलस्य संमते । कांतं निशांतं नितरामचीकरच्चंद्रप्रभस्योत्तमतुंगशृंगभृत् ॥ ५ ॥ तच्च शुचिरुचिरचरितैर्गुरुणा वादिद्विपेंद्रकेसरिणा । जिनचंद्रसूरिगुरुणा मुदा प्रतिष्ठापयामास ॥ ६ ॥ तस्यासँश्चत्वारः पुत्राः प्रत्यस्तनिखिलमिथ्यात्वाः । सम्यक्त्वाद् यच्चेतो न चलति सुरशिखरिशिखरमिव ।। ७ ।। 15 लक्ष्मीधरो लक्षितधर्मलक्ष्यः समुद्धरः सद्गुरुभक्तिदक्षः ।। नाम्ना मुणागः कृतभक्तिरागस्तथाऽऽसिगो बंधुरशुद्धबुद्धिः ॥ ८॥ तत्रासिगस्य पुत्रास्त्रयोऽभवन् वीरपालनामाद्यः । आशापालः शुभधीस्तार्तीयिको जयति [जय पाल९ तेषामाशापालः साधुः श्राद्धः प्रवर्द्धितश्रद्धः । यः शेषामिव जिनपतिसुगुरोराज्ञां वहति मूर्धा ॥ १० ॥ देवगुरुकृत्यकुशलो गांभीर्यौदार्यधैर्यमुख्यगुणैः । रत्नालंकारैरिव नितरां यो भूषांचक्रे ॥ ११ ॥ 20 कुलचंद्र-वीरदेवाख्य-पद्मदेवैः सुतैर्विहितसेवः । साधूनां साध्वीनां श्राद्धानां श्राविकाणां च ॥ १२ ॥ प्रचकारोपष्टंभं योऽशनवरपानवस्त्रपात्राद्यैः । सुषमिणिनाम्नी भार्या शीलनिधिर्धाजते यस्य ॥ १३ ॥ प्रबुद्धवा सज्ज्ञानप्रवितरणमत्यस्तकलुषं भवक्षारांभोधिप्रपतितजनोत्तारतरणिम् । महामोहव्यूहव्यपनयनदक्षं क्षतभयं समस्तानां श्रीणां प्रभवमवदातोत्तमगुणम् ॥ १४ ॥ खर्गापवर्गसंसर्गकारणं पापवारणम् । कल्याणानां परार्ध्यानां निधानं ध्यानवर्द्धनम् ॥ १५ ॥ 25 अभिधानकोशमेतदनेकार्थं लिलेख भोः । इष्टि-वसु-सूरसंख्ये विक्रमभूपवत्सरे ॥ १६ ॥ सुलेखकोऽत्र लावण्यसिंहनामा प्रसिद्धिभाक् । सदक्षरविनिर्माता ब्राह्मणोऽयं प्रकीर्तितः ॥ १७ ॥ ॥शुभं भवतु लेखकपाठकयोः कल्याणमस्तु ॥ [* एतत्प्रशस्तियुक्तं पुस्तकं पत्तननगरे वाडीपार्श्वनाथसत्कभांडागारे सुरक्षितमस्ति । ] [९] 30 हुंबडवंशीय-ईलकश्रावकलेखित-सवृत्तिकावश्यकसूत्रपुस्तकप्रशस्तिः। [लेखनकाल ११९२ विक्रमाब्द] ॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तं ॥ व्याख्यायाध्ययनमिदं न्यायाघदवाप्तमिह मया कुशलम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy