SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५४ खरतरगच्छालंकार शकमहोत्सवः सकलनगरालोकचमत्कारकारी [कृतः] श्रीप्रह्लादनपुरे महता विस्तरेण महोत्सवेन श्रीजिनेश्वरमरिसुगुरुप्रसादानिर्विघ्नश्रेयसेऽस्तु । सुमेरौ निर्मरैरपि सपदि जग्मे तरुवरै टुंगव्या दिव्यन्ते सलिलनिधौ चिन्तामणिगणैः। कलौ काले वीक्ष्यानवधिमभितो याचकगणं । न तस्थौ केनापि स्थिरमभयचन्द्रस्तु विजयी । [७९] धैर्य ते स विलोकतामभय ! यः शैलेन्द्र धैर्योत्मना, गाम्भीर्यं स तवेक्षतां जलनिधेर्गाम्भीर्यमिच्छुश्च यः । भक्तिं देवगुरौ स पश्यतु तव श्रीश्रेणिकं यः स्तुते, यात्रां तीर्थपतेः स वेत्तु भवतो यः स सांप्रती ज्ञीप्सति ॥ [८०] सं० १३२८ वैशाख सुदि १४, श्रीजावालिपुरे सा० क्षेमसिंहेन श्रीचन्द्रप्रभस्वामिमहाबिम्बस्य, महं पूर्णसिंहेन श्रीऋषभदेवस्य, महं ब्रह्मदेवेन श्रीमहावीरबिम्बस्य प्रतिष्ठामहोत्सवः कारितः । ज्येष्ठ वदि ४, हेमप्रभा साध्वी कृता। सं० १३३० वैशाख वदि ६, प्रबोधमूतिंगणेर्वाचनाचार्यपदम् , कल्याणऋद्धिगणिन्याः प्रवर्तिनीपदम् । वैशाख वदि ८, श्रीस्वर्णगिरौ श्रीचन्द्रप्रभस्वामिमहाविग्यं शिखरमध्ये स्थापितम् ।। ७०. एवं प्रतिदिनचमत्कृतविश्वविश्वचित्तानि नैकानि सच्चरित्राणि कुर्वन्तः, श्रीमहावीरतीर्थराजतीर्थ प्रभावयन्तः, प्रोच्छलढ्यापल्लहरिरौद्रसंसारमहाम्भोधिमञ्जजन्तुजातं निस्तारयन्तः, समस्तप्राणिप्राज्यमनोराज्यमालाः कल्पद्रुवत्पूरयन्तः, स्ववाक्चातुरीतजितदेवसूरयः प्रभुश्रीजिनेश्वरसूरयो लोकोत्तरज्ञानसारभाण्डागाराः श्रीजावालिपुरस्थिताः स्वान्त्यसमयं ज्ञात्वा सर्वसंघसमक्षं संक्षेपेण स्वहस्तेनानेकगुणमणिविपणिं वा० प्रबोधमूत्र्तिगणिं १३३१ आश्विनकृष्णपञ्चम्यां प्रातः स्वपदे समस्थापयत् । श्रीजिनप्रबोधसूरिरिति नाम ददुः। श्रीप्रह्लादनपुरस्थितान् श्रीजिनरत्नाचार्यानेवमादिशश्च यच्चतुर्मास्यनन्तरे सर्वगच्छं समुदायं च मेलयित्वा युष्माभिः प्रधानलग्ने यथाविधि विस्तरेण [मरिपदस्थापना] कार्या । ततः श्रीपूज्यैरनशनं प्रतिपन्नम् । तदनन्तरं विशेषतः श्रीमत्पञ्चपरमेष्ठिनमस्कारमन्त्रराजं ध्यायन्तोऽनेका आराधना गुणयन्तः सर्वसचान क्षमयन्तः शुभध्यानाग्रमारूढा आश्विनकृष्णषष्ठथा रात्रिप्रथमघटिकाद्वये गते श्रीपूज्याः स्वर्गाङ्गणविभूपणा बभूवुः । __ततः प्रभाते समुदायेन सर्वराजलोकसहितेन स्थाने स्थाने प्रेक्षणीयके संजायमाने नान्दीतूर्ये वाद्यमाने श्रीमत्पूज्यसंस्कारमहोत्सवः सर्वजनचमत्कारकः कृतः । तत्र च सर्वसमुदायसहितेन सा० क्षेमसिंहेन स्तूपः कारितः। ७१. ततश्चतुर्मास्यनन्तरं श्रीजिनरत्नाचार्याः श्रीजिनेश्वरसूरिसुगुरूपदिष्टश्रीजिनप्रबोधसूरिविस्तरपदस्थापनां चिकीर्षवः श्रीजावालिपुरे समागमन् । ततः सर्वदिक्समुदायमेलापके श्रीचन्द्रतिलकोपाध्याय-श्रीतिलकोपाध्याय-वा० पद्मदेवगणिप्रमुखानेकसाधुमेलापके च प्रतिदिनं दीनानाथदुःस्थितलक्ष्मीदानश्रीचतुर्विधसंघसत्कारविधानादिषु महोत्सवेषु जगजनमनोमयूरताण्डवाडम्बराम्भोधरेषु भविकलोकैर्विधीयमानेषु, सं० १३३१ फाल्गुन वदि ८ खौ, श्रीजिनरत्नाचार्यैः श्रीजिनप्रबोधसरीणां पदस्थापना चक्रे । ततः श्रीजिनप्रबोधसूरिभिः फाल्गुन सुदि ५, स्थिरकीर्ति-भुवनकीर्तिमुनी केवलप्रभा हर्षप्रभा-जयप्रभा-यशःप्रभासाध्व्यश्च दीक्षिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy