SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (३८) श्रीकल्पसूत्रार्थप्रबोधिनी. ४, ज्योति ५, निरुक्तयः ६ । उपाङ्गानि-अङ्गार्थविस्तररूपाणि, तदेतेषां सर्वेषामध्येताऽध्यापयिता, विस्मरतामशुद्धं पठताश्च वारयिता भविता । कापिलीयशास्त्रस्य वेदिता, गणितशास्त्रस्य विज्ञाता भविष्यति । तच्च'अर्धं तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः । सा? हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥' अक्षरसमाम्नायो ग्रन्थः, विविधयज्ञादिप्रतिपादकं शास्त्रम् , ऐन्द्र १, जैनेन्द्र २, सिद्धहैम ३, चान्द्र ४, पाणिनीय ५, सारस्वत ६, शाकटायन ७, वामन ८, विश्रान्त ९, बुद्धिसागर १०, विद्याधर ११ सरस्वतीकण्ठाभरण १२, कलापक १३, भीमसेन १४, शैव १५, गौड १६, नन्दि १७, जयोत्पल १८, मुष्टि १६, जयदेवाभिधानति विंशतिव्याक रणानि, एषु चान्येषु शास्त्रेष्वपि पटीयान् भविष्यति ते दारकस्तत्र मा संशयीथाः। इत्थं स्वप्नफलानि श्रुत्वा मनसि प्रहृष्यन्ती सा देवा. नन्दा कुड्मलीकृतकरकमला भर्तारमेवं व्याजहे-यथा तत्फलानि व्याहरसि तत्तथ्यमेव, मनागपि तत्र न संशये । ततः प्रभृति सा भर्चा सत्रा विविधं मानुषं सुखमन्वभूत्तमाम् । १६ शक्रस्य प्राग्भवकथनं तत्कृतस्तवनश्च अत्रैवाऽवसरे निजोदारकान्तिमत्त्वादिगुणैर्विराजमानः, करधृतवजः, यथास्थानपरिहितमहाहरत्नजटितभासुरमालामुकुटाभ्यां शोशुभ्यमानः, अत्युज्ज्वलचञ्चलमहार्हसद्रत्नखचितकनककुण्डलयुगलशोभितकपोलः, आपादप्रलम्बिनीं पञ्चवर्णात्मिकां कुसुममालां परिदधन्महौजाः, महः द्धिकः, महायशाः, महासुखः, महाबलवीर्यो देदीप्यमानशरीरः श्रीसौधर्मेन्द्रः सौधर्मकल्पे सौधर्मावतंसके महाविमाने सुधर्मासभायां शक्राख्य १ जलेऽधं त्रिहस्तः, कर्दमेऽर्धहस्तः, वालुकायामेकहस्तः, वाद्ये सार्धहस्तो दृश्यते, एवं हस्ताः पटू ६. इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy