SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (२०) सत्यत्वं बहुधा व्यज्यते, अस्त्येतत्सर्वानुभवसिद्धम् । यथैकमेव गिरि प्राच्या याशं पश्यन्ति तादृशं प्रतीच्या न प्रेक्षन्ते । वस्तुगत्या गिरौ मिनत्वं नैवाऽस्ति, तथापि दर्शकीयदेशभेदेन भिनत्वमवगम्यते । तथा वस्तुस्वरूपं सत्यमेकमेव परन्तु जीवानां प्रकतेरनेकत्वात्तद्भेदेन नानात्वमपि भाति । अतएव तदवलोकनेन संशयत्वं व्याकुलत्वं वा नाऽधिगन्तव्यम् । " एतं सिद्धान्तं लक्ष्यीकृत्य स्वकीयं वास्तविकं मन्तव्यं प्रचारयितुं सदैव कटिबद्धैर्भाव्यम् । आचरणीयाश्च प्रतिसंयमक्रिया मावशुद्ध्यैव । यदुक्तं भाषया" विना भावके वात्यक्रिया से धर्म नहीं बन पाता है, रक्खो सदा ध्यानमें इसको यह पागम बतलाता है। भाव विना जो व्रतनियमादि करके ढोंग बनाता है, आत्मपतित होकर वह मानव ठग दंभी कहलाता है । प्रास्तातत, ममैतद्विनाशिदेहे मनागपि विश्वासो नास्ति । अतो भवद्भिः साधुसमाचारीपरिपालने सुदृढैर्भवितव्यम् । कथमपि सुकृतशतैरप्यलम्यमतिदुरापमिदं चारित्ररत्नमधिगम्य मुधैव मा गमयत । यथैतत्साफल्यं व्रजेत्तथैव यतितव्यम् । शासनगच्छयोरवने च सदैव कटिबद्धैः सोद्यमैश्च भवितव्यम् । यत उभयत्र लोके स एव मार्गः श्रेयानस्ति भवाब्धि तितरीघृणाम् । इत्थमदिश्य यावदन्तं 'अर्हन अर्हन् ' इति व्याहरंस्तत्रैव राजगढनगरे सं० १९६३ तमेऽब्दे पौषसितसप्तम्यां भृगुः वासरे सुसमाधिना निर्वाणं गतवानयम् । तदनु सशोका भावुकाः श्रावका महताडम्बरेण राजकीयबेण्डवादादिकं वादयन्तो महोज्ज्वलविमानेन तच्छवं वहन्तो मोहनखेडारव्ये तीर्थे समानीय पवित्रभूमौ विधिवदामिना संश्चक्रुः । ततस्तश्चितोपरि मार्दुलपाषाणैः समाधिमन्दिर निर्माप्य तस्यानुरूपम्प्रतिबिम्ब प्रतिष्ठाञ्जनशलाकया महामहं वितत्याऽतिष्ठिपन् । अस्त्येतदतिपावनम्, लगति चात्राऽऽगतानांजनानां मानसेषु शान्तिवैराग्यरसापगा स्वतःप्रवोढुम्, प्रत्यब्दं कात्तिक्यां चैत्र्यां पूर्णिमायां पौषसितसप्तम्यां चाऽत्र दूरान्तिकपौरजनसमाजो यात्रार्थ द्विद्विसहस्रमुपतिष्ठते, लालभ्यते चाऽतीवशान्तिम् । कुलकम्श्रीसौधर्मबृहत्तपो-गच्छप्रभावशालिनः । श्रीमद्राजेन्द्रसूरीश-संक्षिप्तं जीवनं ह्यदः ॥ १ ॥ तदन्तेसदुपाध्याय-यतीन्द्रविजयाऽभिधः । निध्यष्टेनेन्दभूवर्षे, स्वपरेषां हिताप्तये ॥ २ ॥ तेषे शुक्लदले भौमे, सप्तम्यामकरोन्मुदा। .. वाचकानां तदेतद्धि, भूयादिष्टप्रदायकम् ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy