________________
अष्टमं व्याख्यानम् ।
(२१९) न्मनीदृशं दुःखमनुभवामि, स्त्रीत्वमापद्यापि भर्तृसुखं कथं न लभे ? ।' केवली जगाद-पुरा त्वं धर्म नाऽऽराधितवतीति हेतोरत्र सुखमलभमाना दुःखमेवाऽनुभवसि । सुखं लिप्ससे चेद्धर्ममाराधय, धर्म एव प्राणिनं दैवं सुखं नयति, इति श्रुत्वा साऽनामिका श्राविकाव्रतमुरीकृतवती।प्रतिदिनमुपाश्रयमागत्य सामायिकप्रत्याख्यानोपोषणादिकं कर्तुमारभत । ततः प्रभृति सकला अपि सहधर्मिणस्तां धर्मिणीति गदितुं लग्नाः, पारणादौ साहाय्यमपि दातुं लग्नाः । इत्थं धर्मप्रभावात्सुखिनीभूय प्रान्ते निरशनेन शयानाऽऽसीत् । तदवसरे सुबुद्धिदेवप्रेरितो ललिता. ङ्गो देवस्तत्राऽऽगत्य निजरूपंतामदर्शयत् । तद्रूपावलोकनेन व्यामोहिताsनामिका निदानमकरोत्- कृतस्य तपसः प्रभावेण जन्मान्तरे किलायमेव मे भर्ता स्यात् ।' ततो मृत्वा स्वयम्प्रभादेवी भूत्वा ललिताङ्गेन सह दिव्यं सुखं भुङ्क्ते । ततश्चयुत्वा षष्ठे भवेऽस्मिन्नेव जम्बूद्वीपे पूर्वमहाविदेहे पुष्कलावतीविजये लोहार्गलनगरे राज्ञः सुवर्णजङ्घस्य लक्ष्मीवत्या राड्याः कुक्ष्युत्पन्नो ' वनजङ्घ' नामा पुत्रोऽभवल्ललिताङ्गदेवः । स्वयम्प्रभादेव्यपि तस्मिन्नेव विजये पुण्डरीकनगरे वज्रसेनचक्रिणः श्रीमतीपुत्री जाता । सा सुराऽसुरविद्याधरनरादियुवजनो मोहनं यौवनमापन्ना खल्वेकदा चन्द्रोदयसभाऽऽसीना कस्यापि साधोः समुत्पन्नकेवल. महिमानमेधयितुं वन्दितुञ्च व्रजतो देवानवलोक्य प्राक्तनी जाति सस्मार । व्यचिन्तयच्च-यत्प्राग्भवीयो मे भर्ती ललिताङ्गदेवजीवः कुत्राऽजनि ? चेत्तं जानीयां, तर्हि तमेव वृणुयाम् , इति विमृश्य मौनमशिश्रि. यत् । अजल्पन्ती तामालोक्य माता बहूपचचार, तदपि सा नाऽवदत् । तत एकान्ते धात्री तामप्राक्षीत-वत्से ! त्रपां त्यक्त्वा मौनकारणं ब्रूहि ?, त्वामाधिया॑धिर्वा बाधते कश्चिदिति भाषस्व । धात्रीभाषितं श्रुत्वा राजपुत्री पत्रोपरिललिताङ्गकुमाररूपं विलिख्य धात्र्यै समार्पयत् । सापि तदर्पितं चित्रपटं राज्ञो ददौ । ततस्तस्याः पितुर्वनसेनचक्रवर्त्तिनो वर्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org