SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ टीकाकारस्य जीवनपरिचयः । ७० यन्नामस्मरणेन दुर्दिनचयोऽरं शाकिनीडाकिनी दोषोऽपि प्रलयं प्रयाति विविधा सम्पत्तिरासाद्यते । लोके च प्रियता मुखे मधुरता कार्ये समुत्साहता, तं सन्नौमि सहस्रकृत्वरनिशं राजेन्द्रसूरिं प्रभुम् ॥ १॥ १ जननाऽभ्यास-विदेशाटनानि यात्रा चयर्हि खन्वेतर्हि संसारे सत्यधर्मस्य हानि|भूयते, जाजायते च मिथ्याप्रपञ्चभूमा, वरीवृध्यन्ते च शिथिलाऽऽचाराः । तर्हि तदसनाय कश्चित्समर्थ आदर्शभूतः पुमानवतरत्यत्र । स चाऽकुतोभयो यथावसरं स्वार्थाऽनपेक्षः शाश्वते सत्यधर्मे लोकानां मनांस्याकृष्याऽऽकृष्य हितं मङ्गलमयं विशुद्धं मार्ग प्रदर्शयतितराम् , येन संसारिण: स्वपरेषां सौलभ्येन सुधारां कर्तुं प्रभवन्ति । इति प्राकृतिकप्रशस्यनियमानुसृत्याऽमुष्मिन्नविच्छिन्ने श्रीमहावीरजिनशासने यदाऽन्धपरम्पराग्राहिणाम् , शिथिलाऽऽचारणीतिमताम् , कपोल कल्पनाऽवलम्बिना जैनाभासानां मुखकुहरेभ्यो विनिर्गच्छतः स्वार्थिकानसदुपदेशाञ्छ्रुत्वा श्रुत्वा जनता हि सर्वज्ञप्ररूपितं जिनार्चनादिपु श्रद्धामपि हातुं लग्ना, विषयगृभूनाञ्च देवदेवीनामुपासनमेव पुमर्थसाधनं मन्वानाऽऽसीत् । तदैव प्रागुक्तविषमवातावरणसमुच्छेत्तुमाजन्मब्रह्मचारी सर्वतन्त्रस्वतन्त्रो जङ्गमयुगप्रधानः प्रविशुद्धचारित्रचूडामणिदुष्पाराऽसारसंसारसागरतारकः कुमतनिशानिमीलितभव्यजनकमलवनविबोधनदिवाकरः परमयोगिराजो जगत्पूज्यतमो गुरुदेवः श्रीमविजयराजेन्द्रसूरीश्वरस्तत्र भरतपुरे संवत् १८८३ वर्षे पौषसितसप्तम्यां गुरौ वासरे पारखगोत्रावतंसस्योपकेशवंशीयस्थ बृहच्छाखीयस्य १ चन्देरीनगर्यामधीश्वरो राष्ट्रकूटवंशजातः खरहत्थाऽभिधानो नरनाथो जिनदत्तरेरुपदेशात् सप्तत्युत्तरायामेकादशशततमाब्द्यामाहतं धर्म प्रत्यपद्यत । तस्य चाऽङ्गदेव-निम्बदेव-भैसाशाह-आसराजाऽऽख्याश्चत्वारः पुत्रा अजायन्त । असाशाहस्य कुंवरजी-गेलोजीबुच्चोजी-पासूजी-शैलहत्थसिंहाऽऽख्याः पञ्च तनया बभूवुः, तेषु तुर्यं पासूजीनामानमाडनगरीयो राजा चंद्रसेनो रत्नादीनां क्रयणाय निजान्तिके न्ययुनकू । तत्रैकदा श्रीमालनामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy