SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २०] तृतीया कुलनीतिलोकधर्माः [विंशतिर्विंशिकाः गोचरो येषां ते तथा आचारभेदेन परम्परागतव्यवहारभेदेनेति ।।१६।। एतानेव विशेषतः प्रदर्शयति । कुलधम्माउ अपेया सुरेह केसिंचि पाणगाणं पि। इत्थियणमुज्झियव्वा तेणाणज्जविह इमा मेरा ॥१७॥ अक्षरगमनिका कुलधर्मादपेया सुरेह केषाञ्चिच्चाण्डालानामपि। तथा-स्त्रीजनो वर्जनीयः स्तेनानामद्यापीहेयं मर्यादा ।।१७।। टीका-कुलधर्मात् कुलं पितृसम्बन्धि तस्य धर्म आसेवनपरिहाररूपस्तस्माद् अपेया पातुमयोग्या सुरा मदिरा इह लोके न केवलं सवर्णब्राह्मणादीनां केषाञ्चित् कतिपयानां चाण्डालानामपि शूद्रजातीयानामपि । तथा स्त्रीजनो महिलाजन उज्झितव्यो वर्जनीयः अस्पष्टव्य इति भावः केषां ? स्तेनानां चौराणाम् अयापि सम्प्रत्यपि कलौ इह संसारे इयं प्रत्यक्षत्वाद् दृश्यमाना मर्यादा स्थितिः सीमा लक्ष्मणरेखेति यावत् । श्रूयन्ते हि जोगिदासखुमाणादिव्यतिकरा अद्यापीति ||१७|| अपि च गणगुट्ठिघडापेडगजल्लाईणं च जे इहायारा। पाणापडिसेहाई ते तह धम्मा मुणेयव्वा ॥१८॥ अक्षरगमनिका-गणगोष्ठिघटापेटकजल्लादीनां च य इहाचाराः पानाऽप्रतिषेधादयस्ते तथा धर्मा मुणितव्याः ॥१८॥ __टीका-गणगोष्ठिघटापेटकजल्लादीनां गणा मल्लादीनां समुदायाश्च, गोष्ठयः सवयस्कानां च मण्डलानि. घटा अनेकपरिवाराणां समहाश्च. पेटकानि नटानां यथाश्च. जल्ला वरत्राखेलकाश्चादौ येषां लङ्खमङ्खादीनां ते तथा तेषां चः समुच्चये ये अनिर्दिष्टनामान इह लोके आचारा वक्ष्यमाणस्वरूपा यथा पानाऽप्रतिषधादयः सुरापानाऽवर्जनमातुलकन्यापरिणयनप्रभृतयस्ते सर्वे तथाधर्मास्तथाप्रकारा धर्मा मुणितव्या ज्ञातव्या इति ||१८|| उपसंहरन्नाह सब्बे वि वेयधम्मा निस्सेयससाहगा न नियमेण। आसयभेएणऽन्ने परंपराए तयत्थं ति॥१६॥ अक्षरगमनिका-सर्वेऽपि वेदधर्मा निःश्रेयससाधका न नियमेन | आशयभेदेनान्ये परम्परया तदर्थमिति ||१६॥ टीका-सर्वेऽपि निखिला अपि वेदधर्मा वेदोपदिष्टा धर्मा मिथ्याभिनिवेशपोषकत्वात् निःश्रेयससाधका मोक्षप्रापका न नैव नियमेन अवश्यंभावेन। अत्रार्थे मतान्तरमाह- आशयभेदेन अभिसन्धिभेदेन अन्ये आचार्या वदन्ति, किमित्याह-परम्परया पारम्पर्येण तदर्थं निःश्रेयसार्थमितिः समाप्तौ। उक्तं च—एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते। सरुजेतरभेदेन भोजनादिगतं यथा ।।१६।। (यो. बि. १५३) कथं परम्परया निःश्रेयससाधका इत्याह विसयसरूवऽणुबंधेण होइ सुद्धो तिहा इहं धम्मो। जं ता मुक्खासयओ सबो किल सुंदरो नेओ॥२०॥ ॥ इति कुलनीतिधर्मविंशिका तृतीया ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy