SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४] प्रथमाऽधिकारविंशिका [विंशतिर्विशिकाः मनःसंतापरूपा तथास्वाभाव्याद् इति हेतोस्तथापि खलजनपीडोत्पादरूपं दोषमुपेक्ष्य प्रवृत्तः समुद्यत इत्यम् एवं प्रकरणरचनायां, किं कृत्वा ? दृष्ट्वा विलोक्य सुजनानां सज्जनानां मतितोषं मनस्तृप्तिम् ।।८।। सुजनमतितोषजन्यकुशलादपि खलजनपीडापरिहारं दृढीकृत्य स्वप्रवृत्तिनिर्दोषतामाह तत्तो वि य ज कुसलं तत्तो तेसि पि होहिइ ण पीडा । सुद्धासया पवित्ती सत्थे निद्दोसिया भणिया॥॥ अक्षरगमनिका-ततोऽपि यत्कुशलं ततस्तेषामपि भविष्यति न पीडा। शुद्धाशया प्रवृत्तिः शास्त्रे निर्दोषिका भणिता ||६|| टीका-ततः सज्जनानां मतितोषाद् अपि चः समुच्चये आस्तां मच्छुभभावादित्यपेरर्थः यत् कुशलं पुण्यं भविष्यति ततः कुशलाद् अथवा ग्रन्थगुणविलोकनात् तेषामपि खलजनानामपि भविष्यति-उत्पत्स्यते न नैव पीडा उक्तस्वरूपा। अपरञ्च शुद्धो विमल आशयः अभिसन्धिर्यत्र सा शुद्धाशया प्रवृत्तिः क्रिया प्रारम्भरूपा शास्त्रे आप्तोपदेशरूपे निर्दोषिका निरपराधिका भणिता कथिता तीर्थंकरगणधरैरिति ।।६।। अन्यथा छद्मस्थस्य कुशलमार्गे प्रवर्तनाऽनवकाश एव स्यादित्याह इहरा छउमत्थेणं पढमं न कयाइ कुसलमग्गम्मि। इत्थं पयट्टियव् सम्मं ति कयं पसंगेण ॥१०॥ अक्षरगमनिका-इतरथा छद्मस्थेन प्रथमं न कदापि कुशलमार्ग इत्थं सम्यक् प्रवर्तितव्यमिति कृतं प्रसङ्गेन ।। १०॥ टीका-इतरथा अनन्तरोक्तप्रस्तुतप्रकरणरचनानिर्दोषिताऽनभ्युपगमे छद्मस्थेन छद्म ज्ञानावरणीयादि घातिकर्म तत्र वर्तमानः छद्मस्थस्तेन प्रथमम् आदौ न नैव कदापि कस्मिन्नपि काले कुशलमार्गे धर्ममार्गे इत्थम् एवं सम्यग् यथाविधि प्रवर्तितव्यम् आरब्धव्यं स्यादिति कृतम् अलं प्रसङ्गेन आनुषङ्गिकेन । इदमुक्तं भवति-अन्यथाभ्युपगमे सदाशयेन छद्मस्थस्य कुशलमार्गे प्रवर्तनानवकाश एवापद्येतेत्यलं प्रसङ्गेन ।।१०।। अधुना प्रकृतं प्रस्तावयन् प्रकरणनिबद्धार्थाधिकारान् पञ्चभिर्गाथाभिः सूचयन्नाह अहिगारसूयणा खलु-लोगाणादित्तमेव बोद्धबं । कुलनीइलोगधम्मा, सुद्धो वि य चरमपरियट्टो॥११॥ तब्बीजाइकमो वि य, तं पुण सम्मत्तमेव विनेओ। दाणविहि य तओ खलु, परमो पूयाविही चेव ॥१२॥ सावगधम्मो य तओ, तप्पडिमाओ य हुँति बोद्धव्वा। जइधम्मो इत्तो पुण, दुविहा सिक्खा य एयस्स ॥१३॥ भिक्खाइ विही सुद्धो, तयंतराया असद्धिलिंगंता। आलोयणाविहाणं, पच्छित्ता सुद्धिभावो य॥१४॥ तत्तो जोगविहाणं, केवलनाणं च सुपरिसुद्धं ति। सिद्धविभत्ती य तहा, तेसिं परमं सुहं चेव ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy