________________
स ररररररररररररग244रररररररररररर
मूलेत्यादि - मूलगुणा महाव्रतादयः, आदिशब्देनोत्तरगुणास्तपश्चरणादयस्तत्समन्वितेन रत्नत्रयेण सम्यग्दर्शनज्ञानचारित्रात्मकेन पूर्ण भृतं धर्मनामशकटं च पुन मुक्तिरेव पुरी चिरनिवासयोग्यत्वात्तामुपनेतुं प्रापयितुं वृषभस्य बलीवर्दप्रधानस्य गुणं स्वभावमञ्चन् अनुसरन् तस्य धुरन्धरो भवेदिति ॥ ४२ ॥
दुरिभिनिवेशेत्यादि- दुरभिनिवेशो विरुद्धाभिप्रायो वस्तुस्वरूपादन्यप्रकार: स एव मदस्तं उन्मदयितुंसमर्थत्वात्तेनोद्धुरा उत्थापितमस्तका उद्धता वा कुवादिनः कुत्सितं वदन्तीति ये तोषामेव दन्तिनां हस्तिनां तुल्यधर्मत्वात्तेषां च मदमद्भत्तं परिहर्तमयं बालकः खल निश्चयेन दक्षः समर्थो भवेददीनः कातरतारहित इत्थं केसरी सि भूयादिति । अदयं यथा स्यात्तथेति निधयत्वेन कदाचिदप्यस्मिन् विषये दयां न कुर्यादिति ॥ ४३ ॥
कल्याणेत्यादि - कमलाया लक्ष्म्या आत्मनो यथाऽभिषवो गजैः क्रियते तथास्य कल्याणाभिषवः स्नोनोत्सवः सुमेरोः पर्वतस्य शीर्षे मस्तके पाण्डुकशिलोपरि नाकपतिभिरिन्द्रररं शीघ्रं जन्मसमय एव विमलो निर्मलतासम्पादक: स्याद्भयात् । सोऽपीदृशो वरः सर्वश्रेष्ठो बालकः स्यादिति ॥ ४४ ।।
सुयश इत्यादि - अयं चोत्पित्नुर्बालक: सुयश एव सुरभिर्गन्धस्तस्य समुच्चयेन समूहेन विजृम्भितं व्याप्त च तदशेष सम्पूर्णमपि विष्टपं जगद्येन न सोऽत एव च भव्या धर्मात्मानस्त एव भ्रमरास्तैरिह लोक योऽसावभिमत: स्वीकृत इतः कारणात् पुनर्माल्ययोर्माले एव माल्ये तयोडैिक इव युगलवद्भवेत् ॥ ४५ ॥
निजेत्यादि - यश्च बालको विधुरिव चन्द्रमा इव कलाधरत्वात् कलानां स्वशरीरस्य षोडशांशानां क्रमशो धारकश्चन्द्रो भवति, बालकश्च पुनः सर्वासां विद्याकलानां धारक इत्यतः । निजानां शुचीनां पावनानामुज्जवलानां च गवां सूमीनां वाचां च प्रततिभ्यः पङ्क्तिभ्योऽपादानरूपाभ्यः समुत्पत्रस्य वृषो धर्म एवामृतं तस्योरुधारया किलाविकलस्वरूपया सिञ्चन् कौ पृथिव्यां मुदं हर्ष चन्द्रपक्षे कुमुदानां समूहं विवर्धयेदिति ॥ ४६ ॥
विकचितेत्यादि - रविदर्शनाद् यश्य बालको रविरिव विकचितानि प्रसन्नभावं नीतानि भव्यात्मान एव पयोजानि कमलानि येन स । अज्ञानमेवान्धकारो भ्रामकत्वात् तस्य सन्दोहःसंस्काररूपो नष्ट: प्रणाशंगतोऽज्ञानान्धकारो येन सः । स्वस्य महसा तेजसाऽभिकलितो व्याप्तो लोकः समस्तमपि जगद् येन सः। केवलनाम्नो ज्ञानस्यालोक: प्रकाशोऽथ च केवलोऽन्यनिरपेक्ष आलोको यत्र स सम्भवेदिति । रूपकालङ्कार ॥ ४७ ॥
कलशेत्यादि - यश्च कलशयोर्मङ्गलकुम्भयोर्द्विक इव विमलो मलवर्जित इह च भव्यजीवानां मङ्गलं पापनाशनं करोति सः । तृष्णया पिपासया विषयानामाशया चाचुराय दुःखितायामृतस्य जलस्य मरणाभावस्य च सिद्धिं निष्पत्तिं संसारेऽस्मिन् स्वार्थपूर्णेऽपि श्रणति ददाति ॥ ४८ ॥
केलिकलामित्यादि - स बालको महीतले पृथिव्यां मुदितात्मा मुदितः प्रसन्न आत्मा यस्य सः, मीनद्विकवन्मत्स्ययुगलमिवकेलीनांक्रीडानांकला तामाकलयन् अनुभवन्सकललोकं समस्तजीवलोकमतुलतयाऽनुपमतया मुदितं प्रसन्नं कुर्यात् ॥ ४९ ॥ ___अष्टाधिकमित्यादि - यथा त्वया स्वप्ने कमलानां पङ्कजानामष्टाधिकसहस्रं दधानो हृदस्तडागो दृष्टः, तथैवायं बालकः स्वशरीरे सुलक्षणानां शुभचिन्हानामष्टाधिकं सहस्रं धारयिष्यति, किञ्च भविनां संसारिजीवानां सततं क्लमनाशकः क्लमं परिश्रान्तिं नाशयति तच्छीलो भविष्यति ॥ ५० ॥
काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org