________________
'नासौ नरोयोन विभाति भोगी' इत्यादि वर्णितम्। परमेतद्धार्मिक भावना भावितमाकलितमित्यपि प्रेक्षावतामद्भुतचमत्कारकर प्रतीयते ।
अस्य महाकाव्यस्य तृतीयसर्गे ३८ तमे श्लोके प्रबालता मूर्त्यधरे करे च, मुखेऽब्जताऽस्याश्चरणे गले च । सुवृत्तता जानुयुगे चरित्रे रसालताऽभूत्कुचयोः कटिने ॥ इत्यत्र प्रबालता, अब्जता, सुवृत्तता, रसालतापदेषु विचक्षणश्लेषचम्तकारः कस्य काव्यकाल कोविदस्य हृदयं न चमत्करोति ।।
अस्यैव तृतीयसर्गे २९ तमे पद्ये, पूर्व विनिर्माय विधु'विशेषयत्नाद्विधिस्तन्मुखमेवमेष' इत्यादिवर्णनं कुमारसम्भवे महाकवि कालिदास्य 'शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ।' इति पार्वतीरुपवर्णनमिव सहृदयहृदयनान्याह्लादयतितराम् ।
एवमेवास्य चतुर्थसर्गे वर्षावर्णने वर्षों रसायनाधीश्वरादिसारूप्ये श्लिष्टोत्प्रेक्षालङ्कारचमत्कारः श्रीमहाकवेमाघस्य वर्षावर्णनमप्यति क्राम्यति । इत्थमेव पष्ठसर्गे, 'नहि पलाशतरोर्मुकुलोद्गतिर्वनभुवा नखरक्षतसन्ततिः' इति वर्णन कालिदासीयकुमारसम्भव-वसन्तवर्णनमि विभाति । किञ्च माधस्य 'नवपलाशपलाशवनं पुरः' इत्यपि स्मारयति ।
एवमेवाग्रे कवेः शिशिरर्तुवर्णनमपि विविधालंकारसमन्वितं पाठकाननुरञ्जयति । संसारभोगभंगुरतामवलोक्य तथाऽज्ञानतिमिराच्छन्नस्य मानवसमाजस्य दुष्कृत्यजनितभूरिदुःखान्यालक्ष्य सञ्जातवैराग्येण नायकेन पितृकृतं परिणयाग्रहं विविधयुक्तिभिः प्रत्याख्याय स्वीयलोकोत्तरमहामानवताप्रदर्शनमतीव हृदयहारि शिक्षाप्रदञ्चेति नात्र सन्देहलेशः।
अस्याध्ययनेनेदमपि ज्ञायते यत्तस्मिन्काले देशेऽस्मिन् धूर्तयाज्ञिकैर्यज्ञेषु स्वार्थसिद्धर्थ प्रचुरा पशुहिंसाऽक्रियत। तदवलोक्य नायकस्य चेतसि महद्दः खमभूत् । एवञ्च तदा समाजेऽनेकेऽनाचार कुरीतयश्च प्रचलिता आसन्। तेनापि दर्याहृदयस्य नायकस्य परम कारुण्य-पूरपूरितेऽन्त:करणे स्वभोगसुखापेक्षया सामाजिकोद्धारःसमुचितोऽन्वभूयत। एतदर्थमेव महामनस्वी परमदयालु यक: लोकोद्धारचिकीर्षया सकलराजपुत्रोपभोगसामग्री विहाय परमकष्ट साध्या शमदमातिसहितां प्रव्रज्यामङ्गीचकार । प्रव्रज्य कैवल्यं प्राप्य च सर्व जीवेभ्यो धर्मोपदेशं विधाय समाजस्य विशेषतोऽहिंसाप्रचारस्य महदभ्युदयमनुष्ठितवान् ।
इत्थं महाकवेरस्य विविधरसभावगुणालंकारालंकृता कविता कस्य सहृदयस्य मानसं न हरति । विशेषतः समस्तेऽपि काव्येऽन्त्यानुप्रासस्तु ग्रन्थकर्तु रद्भुतं वैदुष्यमाविष्कुरुते ।
पूज्यमहाकविभिर्मुनिवर्यै अस्मिन् महाकाव्ये गोमूत्रिकादि चित्रबन्धकाव्यकलाया अपि चमत्कार: कतिपयपद्येषु संप्रदर्शितः । तथाहि - काव्यस्यास्यान्ति में सर्गे 'रमयन् गमयत्येष' इत्यादि सप्तत्रिं- शत्तमे पद्ये गोमूत्रिका बन्धरचना, न मनोद्यमि देवेभ्योऽर्हदभ्य' इत्याद्यष्टत्रिशत्तमे पद्ये यानबन्धरचना, विनयेन मानहीनं' इत्याद्ये कोनत्रिंशत्तमे
ना, 'सन्तः सदा समा भान्ति' इत्यादिचत्वारिशत्तमे पद्ये च तालवृन्तपद्यरचना कस्य सहृदयस्य चित्तं नाहृदयेत् । अनेनापि कवित्वनैपुण्येन मुनिवर्याणामद्भुतं महाकवित्वमाविर्भवति । यतो हि एतादृशाद्मभुतचित्रबन्धकाव्यर चयितारो महाकवय एव प्रभवन्ति । अद्यतने काले त्वेवम्भूताः कवयितारो दुर्लभा एव दृश्यन्ते।
अतएव वयमेताद्दशमहाकाव्यरचयितृभ्यो महाकवि श्रीमुनिवर्येभ्यो वर्धापनं वितरन्तस्तेषामुत्तरोत्तराभिवृद्धयै परमास्मानं प्रार्थयामः ।
बसंत पंचमी २०२४ रघुवरदत्त शास्त्री
साहित्याचार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org