SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १२ चन्द्रानन्दवृत्तवैशिष्ट्यम् इसवीये पञ्चदशे शतके विद्यमानः शङ्करमिश्रो वैशेषिकसूत्रोवस्कारे 'तत्र तत्र कञ्चन वृत्तिकारं स्मरति, केयं वृत्तिरिति न वयं जानीमस्तथापि सा तस्य न तोषकारिणीति स्फुटमेव प्रतिभाति । उपस्कारप्रारम्भ एव तेन " सूत्रमात्रावलम्बन निरालम्बेऽपि गच्छतः । खे खेलवन्ममाप्यत्र साहसं सिद्धिमेष्यति ॥ ३ ॥" इत्यभिधानात् । एवं च प्राचीनव्याख्यानामभावः स्फुटमेव तेनावेदितः । अत एवोपस्कारस्य ततोऽर्वाचीनानां च वैशेषिकसूत्रवृत्तीनां सूत्रपाठनिर्णये सूत्रार्थनिर्णये च नातीवोपयोगः । 'इसवीये त्रयोदशे शतके विद्यमानेन भट्टवादीन्द्रेण प्रणीता कणादसूत्रनिबन्धाख्याऽतिविस्तृता वैशेषिकसूत्रव्याख्या प्रकाशनं प्रतीक्षमाणा मातृकासु विद्यत इति अनन्तलालदेवशर्मणाम् Bhattavadindra-The Vaisesika इति लेखाज्ज्ञायते । अस्यैव प्रायशः संक्षेपरूपा अनन्तलालदेवशर्मभिः सम्पादिता मि. वृत्तिः मिथिलाविद्यापीठेन सम्प्रति प्रकाशिता। इयं च शङ्करमिश्रात् प्राचीना, तत्स्वीकृतः सूत्रपाठोऽपि शङ्करमिश्राभ्युपगतसूत्रपाठात् समीचीनस्तथापि तत्र पृथक् सूत्रपाठाभावात् प्रान्ते खण्डितत्वाद् अनतिप्राचीनत्वाच्च तस्याः, प्राचीनसूत्रपाठनिर्णये प्राचीनपरम्परानुसारिसूत्रार्थनिर्णये च प्राचीनसूत्रपाठेन सहिता चन्द्रानन्द्रविरचिता वैशेषिकसूत्रवृत्तिरेवात्यन्तमुपकरोति । चन्द्रानन्दरचितेयं वृत्तिर्यद्यपि संक्षिप्तैव तथापि प्राचीनवृत्त्यनुसारित्वात् प्राचीनवृत्तिकृतां सम्मत एव सूत्रार्थः सूत्रपाठश्च तत्रोपदर्शित इति महाँल्लाभः । वैशेषिकसूत्राणामतिचिरन्तनत्वाद् भवेद् नाम क्वचित् कश्चित् सूत्रपाठभेदस्तथापि प्राचीनोऽयं सूत्रपाठो दिप्ठ्याऽस्माकं दृष्टिपथमायातीति प्रभूतप्रमोदावहमेतत् । चन्द्रानन्दस्य समयः चन्द्रानन्दस्य जीवनवृत्तादिविषयिका कापि साधनसामग्री नोपलभ्यते। समयोऽपि तस्य विशिष्य निर्णेतुं न पार्यते । न्यायवार्तिककारम् उद्योतकरमेकत्र' स नामग्राहं १ दृश्यताम् । १ । १ । २, १।२ । ३, १।२।६, ३ । १ । १७, ४ । १ । ७, ४। १ । १२, ६।१।५, ७ । १।३ ॥ २ दृश्यतामत्र Introduction. p. 22 ॥ ३ JOI. Vol. X, No. I. pp. 22-31 । देवगिरी सिंघगस्य [1210-47 A.D.] श्रीकृष्णस्य [1247-1261 A.D.] च राज्ञः समये भट्टवादी द्रस्य स्थितिरासीदित्यषि तत्रावदितम् ॥ ४ पृ. २९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy