SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३०० जयोदय-महाकाव्यम् [६७-६८ पाहीति न निगदन्तं दष्ट्वाऽधरमात्मनोऽपि सरुषं तम् । राज्ञोऽस्य सम्पराये सन्तिष्ठन्ते प्रतीपा ये ॥ ६७ ॥ पाहीति । अस्य राज्ञः सम्पराये रणस्थले प्रवर्तमाना ये प्रतीपाः शत्रवस्ते पाहि रक्षेति निगवन्तमतः सरुवं रोषयुक्तम्, यद्वाऽपराधिनं तमात्मनोऽधरोष्ठमपि दष्ट्वा सन्तिष्ठन्ते म्रियन्त एव । राज्ञोऽभिप्रायानुकूलं पाहि पाहोति शब्दमकथयतोऽधरवंशनेन अरयोऽप्यस्य अनुचरतामाश्रयन्तीत्यर्थः । युद्धेश्वरवंशनं वीराणामाचार। ॥ ६७ ॥ युवतिस्तनेषु रङ्गे रणे च रिपुमस्तकेषु नरशस्यः। स्फीति भीति क्रमशः कुरुते करवार एतस्य ॥ ६८॥ युवतीति । एतस्य राज्ञः करवारः करस्य हस्तस्य वारोऽवसर आलिङ्गनसमय इति, यद्वा कर एव वारो बालकः सुकोमलत्वात् सः, करवारश्च खङ्गोऽपि क्रमशो यथासंख्यं रङ्ग सुरतस्थले युवतीनां निजतरुणाङ्गनानां स्तनेषु स्फीतिमौनत्यं विस्तारं वा वर्धयते, खङ्गश्च रणे रिपूणां मस्तकेषु भीतिमुद्विग्नतां कुरुते । कीदृशोऽसौ करवारो नरशस्यो रलयोरभवान् नरमेव नलं कमलं तवच्छस्यः प्रशंसनीयः, स्त्रीभ्यः कोमलतर।। शत्रुपक्षे च नरैर्वीरपुरुषेरपि शस्यः श्लाघनीयः शत्रुसंहारकत्वात्, एवम्भूतः शूरोऽयं नृप इति भावः ॥ ६८॥ अर्थ : निर्मलबुद्धि यह राजा अपनी नित्यनूतन शक्तिरूपी नौकाद्वारा कवचसे युक्त हो कानतक खिचे धनुषपर स्थित बाणसे अथवा अनुकूल वायुसे तथा ढालरूपी नोका चलानेवाले काठद्वारा रणरूपी समुद्रको पार करता है ।। ६६ ॥ ___ अन्वय : अस्य राज्ञः ये प्रतीपाः ते पाहि इति न निगदन्तम् आत्मनः अधरम् अपि तं सरुषं दष्ट्वा संपराये संतिष्ठन्ते । अर्थ : यह राजा ऐसा है जिसके शत्रु-राजा 'रक्षा करो' ऐसा न कहकर अपने अधर-ओष्ठको ही क्रुद्ध हो काटते हुए युद्ध में मर जाते हैं।। ६७ ॥ अन्वय : एतस्य नरशस्यः करवारः रङ्गे युवतिस्तनेषु स्फीति रणे च रिपुमस्तकेषु भीति क्रमशः कुरुते । अर्थ : इस राजाका करवार ( तलवार अथवा हाथका आलिंगन ) रणमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy