SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ २९२ स्वामिकार्तिकेयानुप्रेक्षा [गा०३९४चामुण्डाव्यन्तर्या कृतोपसर्ग सोढा उत्तमक्षमाधर्म भजन वीतरागनिर्विकल्पसमाधि प्राप्य केवलज्ञानमुत्पाद्य मोक्षं गतः॥ श्रेणिकराजस्य पुत्रः चिलातीपुत्रः नाम्ना व्यन्तरीकृतोपसर्ग प्राप्य शरीरे निःस्पृहो भूत्वा परमक्षान्ति प्राप्य उत्कृष्टधर्मध्यानबलेन समाधिना कालं कृत्वा सर्वार्थसिद्धिं गतः ॥ स्वामिकार्तिकेयमुनिः क्रोश्चराजकृतोपसर्ग सोढ़ा साम्यपरिणामेन समाधिमरणेन देवलोक प्राप्तः ॥ गुरुदत्तमुनिः कपिलब्राह्मणकृतोपसर्ग सोढ़ा परमक्षमाधर्म प्राप्य कर्मक्षयं शुक्लध्यानेन कृत्वा मोक्षं गतः ॥ पञ्चशतमुनयः दण्डकराजेन यन्त्रमध्ये पीडिताः समाधिना मरणं कृत्वा सिद्धिं गताः ॥ गजकुमारमुनिः पांशुलश्रेष्ठिनरकृतोपसर्ग सोढ़ा समाधिमरणं कृत्वा सिद्धिं गतः ॥ चाणक्यादिपञ्चशतमुनयः मन्त्रिकृतोपसर्ग सोढा शुक्लध्यानेन कर्मक्षयं कृत्वा सिद्धिं गताः ॥ सुकुमालस्वामी मुनिः शृगालीकृतोपसर्ग सोढा शुभध्यानेन अच्युतस्वर्गे देवो जातः॥ सुकोशलमुनिः मातृचरीव्याघ्रीकृतोपसर्ग सोढा सर्वार्थसिद्धिं गतः॥ श्रीपणिकमुनिः जलोपसर्ग सोढा मुक्तिं गतः ॥ द्वात्रिं. शत् श्रेष्ठिपुत्रा नदीप्रवाहे पतिताः सन्तः शुभध्यानेन मरणं प्राप्य खर्गे देवा जाताः॥ इति देवमनुष्यपशुविचेतनकृतोपसर्ग सो 1 उत्तमक्षमा प्राप्य सद्गतिं गताः । चतुर्विधोपसर्गे क्रियमाणे क्रोधेन संतापं न गच्छन्ति तेषाम् उत्तमक्षमाधर्मो भवति । तथा हि । तपोबृंहणकारणशरीरस्थितिनिमित्तं निरवद्याहारान्वेषणार्थ परगृहाणि गच्छतो मिक्षोः भ्रमतः दुष्टमिथ्यादृग्जनाक्रोशनात् प्रहसनावज्ञानुताडनयष्टिमुष्टिप्रहारशरीरव्यापादनादीनां क्रोधोत्पत्तिनिमित्तानां संनिधाने कालुष्याभावः क्षमा प्रोच्यते । उत्तमक्षमाया व्रतशीलपरिरक्षणमिहामुत्र च दुःखानमिष्वङ्गः सर्वस्य जगतः सन्मानसत्कारलाभप्रसिध्द्यादिश्च गुणः, तत्प्रतिपक्षकोधस्य धर्मार्थकाममोक्षप्रणाशनं दोषः, इति विचिन्त्य क्षन्तव्यम् । किंच क्रोधनिमित्तस्यात्मनि भावानुचिन्तना। तावत् विद्यन्ते मयि विषये एते दोषाः, किमत्र असौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि नेते मयि विषये विद्यन्ते दोषाः, अज्ञानादसौ ब्रवीतीति क्षमा कार्या । अपि च बालस्वभावचिन्तनं परोक्षप्रत्यक्षाक्रोशनताडन मारणधर्मभ्रंशनानामुत्तरोत्तररक्षार्थम् । परोक्षमाक्रोशति बाले मूर्खे मिथ्यादृष्टो क्षमितव्यम् । एवंखभावा हि बाला भवन्ति, दिष्ट्या च स मां परोक्षमाकोशति, न च प्रत्यक्षम्, एतदपि बालेष्विति लाभ एव मन्तव्यः । प्रत्यक्षमाकोशति सोढव्यम् , विद्यते एतद्वालेषु, दिष्ट्या च मां प्रत्यक्षमाकोशति, न च ताडयति, एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः। ताडयत्यपि मर्षितव्यम्, दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयति, एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । शील मुनियोंके अनेक कथानक पाये जाते हैं। श्रीदत्त मुनि व्यन्तर देवके द्वारा किये गये उपसर्गको जीतकर वीतराग निर्विकल्प ध्यानके द्वारा चार घातिया कर्मोको नष्ट करके केवल ज्ञानको प्राप्त हुए और फिर मुक्त होगये । विद्युच्चर मुनि चामुण्डा नामकी व्यन्तरीके द्वारा किये हुए घोर उपसर्गको सहनकर वीतराग निर्विकल्प समाधिके द्वारा सर्वार्थ सिद्धि गये। राजा श्रेणिकका पुत्र चिलातीपुत्र व्यन्तरीके द्वारा किये गये उपसर्गको सहनकर उत्कृष्ट ध्यानके बलसे मरकर सर्वार्थ सिद्धि गया। स्वामी कार्तिकेयमुनिने कोंच राजाके द्वारा किये गये उपसर्गको साम्यभावसे सहनकर देवलोक प्राप्त किया । गुरुदत्तमुनि कपिल ब्राह्मणके द्वारा किये गये घोर उपसर्गको क्षमा भावसे सहनकर शुक्ल ध्यानके द्वारा कोका क्षय करके मोक्ष गये । दण्डक राजाने पांच सौ मुनियोंको कोल्हूमें पेल दिया । वे सभी समाधि मरण करके मुक्त हुए । गजकुमार मुनिने पांसुल सेठके द्वारा किये गये घोर उपसर्गको सहनकर मुक्ति प्राप्त की। चाणक्य आदि पांच सौ मुनि मंत्रीके द्वारा किये गये उपसर्गको सहकर शुक्ल ध्यानके द्वारा मुक्त हुए। सुकुमाल मुनि शृगालीके द्वारा खाये जानेपर शुभ ध्यानसे मर कर देव हुए। सुकोशल मुनि सिंहनीके द्वारा, जो पूर्व भवमें उनकी माता थी, खाये जानेपर शान्त भावोंसे प्राण त्यागकर सर्वार्थ सिद्धि गये । श्री पणिक मुनि जलका उपसर्ग सहकर मुक्त हुए । बत्तीस श्रेष्ठिपुत्र नदीमें बहनेपर शुभ ध्यानसे मरकर खर्गमें देव हुए । इस प्रकार घोर १ कचिदादर्शेषु 'बालेष्वतिलाभः' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy