SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ -३९१] १२. धर्मानुप्रेक्षा य णियमेण । लोवं धरिज पेच्छ भुजिजो पाणिपत्तम्हि ॥११॥ दिणपडिमवीरचरियातियालजोगेसु णत्यि अहियारो। सिद्धतरहस्साण अज्झयणे देसविरदाणं ॥ १२ ॥ उद्दिद्वपिंडविरदो दुवियप्पो सावओ समासेण । एयारसम्मि ठाणे भणिओ सुत्ताणुसारेण ॥ १३ ॥" तथा समन्तभद्रेणोक्तं च । 'गृहतो मुनिवनमित्वा गुरूपकण्ठे व्रतानि परिगृह्य । भैक्ष्याशनस्तपस्यनुत्कृष्टश्चेलखण्डधरः ॥' 'एकादशके स्थाने ह्युत्कृष्टः श्रावको भवेद्विविधः । वस्त्रैकधरः प्रथमः कौपीनपरिग्रहोऽन्यस्तु ॥२॥ कौपीनोऽसौ रात्रिप्रतिमायोगं करोति नियमेन। लोचं पिच्छं धृत्वा भुते युपविश्य पाणिपुटे ॥३॥ वीरचर्या च सूर्यप्रतिमात्रैकाल्ययोगनियमश्च । सिद्धान्तरहस्यादिष्वध्ययनं नास्ति देशविरतानाम् ॥ ४॥ आद्यास्तु षड् जघन्याः स्युर्मध्यमास्तदनु त्रयम्। शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने ॥५॥' चारित्रसारे “खोद्दिष्टपिण्डोपधिशयनवरासनादेर्विरतः एकशाटकधरो भिक्षाशनः पाणिपात्रपुटेन उपविश्य भोजी रात्रिप्रतिमादितपःसमुद्यतः आतपनादियोगरहितो भवति । अणुव्रतिमहाव्रतिनी समितियुक्तौ संयमिनौ भवतः समिति विना विरतौ। तथा चोक्तं वर्गणाखण्डस्य बन्धनाधिकारे । : संजमविरईणं को मेदो। ससमिदिमहब्बयाणुव्वयाई संजमो, समिदीहिं विणा महव्वयाणुव्वयाई विरदी" इति । असिमषिकृषिवाणिज्यादिमिः गृहस्थानां हिंसासंभवे पक्षचर्यासाधकत्वैहिसाऽभावः क्रियते। तत्राहिंसापरिणामत्वं पक्षः १ । धर्मार्थ देवतार्थ मन्त्रसिद्ध्यर्थम् औषभार्थम् आहारार्थ स्वभोगार्थ च गृहमेधिनो हिंसां न कुर्वन्ति। हिंसासंभवे प्रायश्चित्तविधिना विशुद्धः सन् परिग्रहपरित्यागकरणे सति स्वगृहं धर्म च वंश्याय समर्प्य यावद्गृहं परित्यजति तावदस्य चर्या भवति २। सकलगुणसंपूर्णस्य शरीरकम्पनोच्छासनोन्मीलनविधि परिहरमाणस्य निहितलोकाग्रमनसः शरीरपरित्यागः साधकत्वम् ३ । एवं पक्षादिभिस्त्रिमिर्हिसाधुपचितं पापमपगतं भवति । जैनागमे आश्रमाश्चत्वारः । उक्तं चोपासकाध्ययने। 'ब्रह्मचारी १ गृहस्थश्च २ वानप्रस्थश्च ३ भिक्षुकः ४ । इत्याश्रमास्तु जैनानां सप्तमाङ्गाद्विनिःसृताः ॥' तत्र ब्रह्मचारिणः पञ्चविधाः । उपनयावलम्बादीक्षागूढनैष्ठिकभेदेन । तत्र उपनयब्रह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा [गृहधर्मानुष्ठायिनो भवन्ति । अवलम्बब्रह्मचारिणः क्षुल्लकरूपेणागममभ्यस्य परिगृहीतगृहावासा भवन्ति २। अदीक्षाब्रह्मचारिणः वेषमन्तरेणाभ्यस्तागमा] गृहधर्मनिरता भवन्ति ३ । गूढब्रह्मचारिणः कुमारश्रमणाः सन्तः स्वीकृतागमाभ्यासा बन्धुभिः दुस्सहपरीषहैरात्मना नृपादिभिर्वा निरस्तपरमेश्वररूपा गृहवासरता भवन्ति ४ । नैष्ठिकब्रह्मचारिणः समाधिगतशिखालक्षितशिरोलिङ्गा गणधरसूत्रोपलक्षितोरोलिङ्गाः शुक्लरक्तवसनखण्डकौपीनलक्षितकटीलिङ्गाः स्नातका भिक्षावृत्तयो भवन्ति देवतार्चनपरा भवन्ति ५। गृहस्थस्य इज्या १ वार्ता २ दत्तिः ३ स्वाध्यायः ४ संयमः ५ तपः ६ इत्यार्यषट्कर्माणि भवन्ति । तत्र अर्हत्पूजा इज्या, सा च नित्यमहः १ चतुर्मुखं २ कल्पवृक्षः ३ आष्टाह्निकं ४ ऐन्द्रध्वजः ५ इति। तत्र नित्यमहः नित्यं यथाशक्ति जिनगृहेभ्यो निजगृहाद्गन्धपुष्पाक्षतादिनिवेदनं चैत्यचैत्यालयं कृत्वा प्रामक्षेत्रादीनां शासनदानं मुनिजनपूजनं च भवति । चतुर्मुख मुकुटबद्धः क्रियमाणा पूजा सैव महामहः सर्वतोभद्र इति । कल्पवृक्षः अर्थिनः प्रार्थितार्थः संत चक्रवर्तिभिः क्रियमाणो महः ३। आष्टाहिकं प्रतीतम् ४। ऐन्द्रध्वजः इन्द्रादिभिः क्रियमाणः बलिनपनं संध्यात्रयेऽपि जगत्रयस्वामिनः पूजाजो पूजन करता है उसे कल्पवृक्ष पूजा कहते हैं । अष्टाह्निकापर्वमें जो जिनपूजा की जाती है वह आष्टालिक पूजा है । इन्द्रादिकके द्वारा जो जिनपूजा की जाती है वह इन्द्रध्वज है। असि (तलवार) मषि ( लेखनी ) कृषि ( खेती) वाणिज्य (व्यापार ) और शिल्प (दस्तकारी) के द्वारा न्यायपूर्वक धन कमानेको वार्ता कहते हैं । दानके चार. भेद हैं-दयादान, पात्रदान, समदान और सकलदान । दयाके पात्र प्राणियोंपर दया करके दान देना दयादान है । महातपखी साधुओंको नवधा. भक्तिपूर्वक निर्दोष आहार देना, शास्त्र तथा पीछी कमंडलु देना पात्रदान है । गृहस्थोंमें श्रेष्ठ साधर्मी भाईको कन्या, भूमि, सोना, हाथी, घोड़ा, रथ वगैरह देना समदान है । अपने पुत्र अथवा दत्तकको घरकापूरा भार सौंपकर गृहस्थीके त्याग करनेको सकलदान कहते हैं, और इसीका नाम अन्वयदान भी है। ये दानके भेद हैं। तत्त्वज्ञानके अध्ययन अध्यापनको खाध्याय कहते हैं। पाँच अणुव्रतोंके पालन करनेका नाम संयम है । और बारह प्रकारका तप होता है। इन षट्कर्मोंका पालन करनेवाले गृहस्थ दो १ मूलप्रतौ 'अविरतौ' इति पाठः। २ मूलाप्रतौ 'अविरदी' इति पाठः । कार्तिके० ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy