SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३५ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तह पिज्जवत्तिया दोसवत्तिया ईरियावहीकिरिया। एयाओ पंचवीसइ किरिया अत्थो य सिं एसो॥ एतासां चार्थः संक्षेपेणैवमवसेयः, तथाहि-आरम्भादनिवृत्तस्याविरतश्रद्धादेरनुपयुक्तसाध्वादेर्वा कायः शरीरं तद्भवा कायिकी क्रिया द्विविधा १, एवमधिकरणं खड्गादिकं तद्भवा आधिकरणिकी साऽपि तेषामादित एव निर्वर्त्तनेन मुष्ट्यादेर्वा योजनेनेति द्वेधा २, जीवादौ प्रद्वेषकरणात् प्रद्वेषिकी ३, स्वयमन्येन वा परस्य शरीरादिपरितापजननात् पारितापिनी ४, एवमेव परस्य व्यापादनात् प्राणातिपातिनी ५, सामान्येनैव जीवादिविषयारम्भप्रवृत्तिरारम्भिकी क्रिया ६, परिग्रहप्रभवा पारिग्राहिकी ७, मायाप्रभवा मायाप्रत्ययिकी ८, मिथ्यादर्शनप्रभवा कुमतश्रद्धानादिका मिथ्यादर्शनप्रत्ययिकी ९, असंयतस्य जीवादिविषयाऽविरतिप्रभवा प्रत्याख्यानिकी १०, अश्वादीनां मिथ्यादृष्टिस्यन्दनादीनां वा दर्शनार्थं गमनादिका दृष्टिक्रिया ११, तेषामेव कुतश्चित् प्रच्छने प्रश्नक्रिया, पुट्ठिय त्ति प्राकृतनिर्देशाज्जीवादेर्यद्रागेण स्पर्शनं सा वा स्पृष्टिक्रिया १२, रागेण जीवादीन् प्रतीत्य[या चे]ष्टा सा प्रतीत्यक्रिया १३, निजेष्वेव रमणीयजीवादिवस्तुषु समन्तात् प्रेक्षकजनैः स्तूयमानेषु या तुष्टिः सा सामन्तोपनिपातिनी १४, जीवादीनां तथाविधयन्त्रैः निःसृजनं निक्षेपणं यत् सा नैशस्त्रिकी १५, स्वहस्तेनैव यत् परस्य ताडनं सा स्वहस्तिकी १६, जीवादेः परेणानयनं यत्सा आनायनी १७, जीवादीनां क्रकचादिना विदारणं विदारणिका क्रिया १८, उपधेरादाननिक्षेपादिकमनाभोगात् कुर्वतोऽनाभोगप्रत्ययिकी १९, इहपरलोकापायानवकांक्षाविरुद्धासेवनरूपत्वेऽनवकांक्षाप्रत्ययिकी २०, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy