SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् .४ तत्राऽभय-नष्टाभिमानक्रुत्पदाभ्यामपायापगमातिशयो दर्शितः, विज्ञपदेन तु ज्ञानातिशयः, लब्धार्थपादपदेन पूजातिशयः, विद्याचक्रविभुशब्देन च वागतिशयः। तथेष्टदमित्यनेन परार्थसम्पत्तिर्विज्ञमित्यादिभिस्तु स्वार्थसम्पत्तिरपि दर्शितेति भवति भावस्तवना। चक्ररूपता त्वस्यैवं भावनीया–कर्णिकायां तावल्लघुकुण्डलकमेकम्। ततोऽक्षरद्वयद्वयान्तरितं रेखाद्वयनिष्पन्नमेकाक्षरप्रमाणं द्वितीयं कुण्डलकम्। ततोऽप्यक्षरत्रयत्रयान्तरितमेकाक्षरप्रमाणं तृतीयं कुण्डलकं रेखाद्वयनिष्पन्नम्। ततोऽप्येकाक्षरान्तरितमेकाक्षरप्रमाणं रेखायुगलनिष्पन्नं चतुर्थं कुण्डलकम्। तथा कर्णिकाया ऊर्ध्वभागेऽधोभागे चान्त्यकुण्डलकप्राप्तं रेखाद्वयं कार्यम्। ततस्तस्य दक्षिणभागे तत्कुण्डलकाक्षरद्वयान्तरितं कर्णिकाया ऊर्श्वभागाधोभागयोरन्त्यकुण्डलकप्राप्तं द्वितीयं रेखाद्वयम्। एवं ततोऽपि दक्षिणतस्तथैवाक्षरद्वयान्तरितमन्त्यकुण्डलकप्राप्तं रेखाद्वयं कार्यम्, एवं च षड्रेखान्तरालेषु षडरकाणि। अस्य च षडरकस्य चक्रस्य कर्णिकात ऊर्द्धगतरेखाद्वयमध्ये पर्यन्तवर्त्तिकुण्डलके प्रथममक्षरं 'न' काररूपं लिख्यते, ततोन्तराले 'त्वा' इति। ततोऽधः कुण्डलकमध्ये 'भ' इति । ततः 'क्तिनतां' इति त्रयम्, ततः कुण्डलकमध्ये 'ग' इत्येकम्, ततोन्तराले 'कोह' इति द्वयम्। ततः कर्णिकायां 'म' इत्येकम्, ततोऽप्यधोऽन्तराले 'भयं' इति द्वयम्, ततः कुण्डलकमध्ये 'न' इति, ततोऽप्यन्तराले 'ष्टाभिमा' इति त्रयम्, पुनः कुण्डलकमध्ये 'न' इत्येकम्, ततोऽन्तराले 'कु' इत्येकम्। ततः पर्यन्तकुण्डलके 'धं' इत्ये कम्। एवं तद्दक्षिणदिग्वतिरेखाद्वयमध्येऽपि समस्ताक्षरन्यासः कार्यः, ततस्तृतीयेऽपि रेखाद्वयमध्ये ऽनेनैव क्रमेण समस्ताक्षरन्यासः कर्त्तव्यः। अथ तृतीयरेखाद्वयपर्यन्तवर्तिनो 'वे' इत्यक्षरस्य पुनरावर्तने, ततो दक्षिणभागे 'द्यं ज्ञा' इति अक्षरद्वयम्, ततोऽपि रेखाद्वयमध्यवर्ति 'न' इत्येकम्, ततोऽपि दक्षिणतो 'वतां' इत्यक्षरद्वयम्, ततोऽपि रेखाद्वयमध्ये 'वि' इत्येकम्, ततोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy