SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् सन्नित्याह-अच्यौ पूजनीयौ अर्थात् त्रिभुवनेन पादौ चरणौ यस्य स तथा, परं केवलम्। क्वेत्याह-शिवं मोक्षः तदेव निरन्तरातुलप्रमोददायित्वसाधर्म्यात् सुन्दरी रमणी तस्याः स्तनतटे कुचस्थले। कीदृशे? रुन्द्रे विस्तीर्णे तदितरस्य विशिष्टानन्दासम्पादकत्वात्। तत् किमेवमेव सामान्यजनरूपः सन्? नेत्याह-लब्ध्वा प्राप्य जिनत्वमपि रागद्वेषपरीषहोपसर्गादिजयात् केवलज्ञानोत्पादे चतुस्त्रिंशदतिशयोपेतत्वरूपं तीर्थकरत्वमपि, आस्तां चक्रधरत्व-वज्रधरत्वादिकमित्यपेरर्थः। कीदृशम्? सदिति शोभनं शेषनरासुरसुरेभ्यः प्रधानत्वात्, अत एवोक्तं नम्यं नमस्करणीयम्। केषामित्याह-चक्रभृतां चक्रवर्त्तिनाम्, उपलक्षणं चैतन्नरप्रधाननम्यत्वम्। तेन सुरासुरप्रधाननम्यत्वमप्यस्य द्रष्टव्यमिति। तदेवं धर्मशिक्षायाः फलमतुलमवधार्य तत्र सादरं प्रवर्त्तितव्यमित्युपदेश इति वृत्तार्थः॥ ४० ॥ चक्रमिति, प्रथमवृत्तोपदर्शितवर्णन्यासक्रमेणेदमपि षडरकं चक्रं द्रष्टव्यम् । केवलं नामाङ्कस्थाने गणिजिनवल्लभवचनमदः इत्येतावन्मात्रेणैव विशेषः। स्थापना चेयम्। ता र ANSAR 1404 | 김 회의 여성 외 后唇下方加上作 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy