SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ औपशमिकादिभिर्यो युक्तः स जीवः, औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकैर्युक्तः औपशमिकादियुक्तः, भाव इत्यर्थः औपशमिकादियुक्तो योऽर्थः तं ग्रहीतुं शीलं येषां ते तद्ग्राहिणः । सर्वासु च नारकादिगतिषु अवश्यमौपशमिकादीनां भावानां यः कश्चित् सम्भवति भावः, सिद्धिगतौ च यद्यप्यौपशमिकक्षायोपशमिकौदयिकाः न सन्ति, तथापि क्षायिकपारिणामिकौ सम्भवतः इत्यसावपि जीवः । नोजीव इत्युच्चरिते किं प्रतीयते तैर्नयैः ? उच्यते-यदा नोशब्दः सर्वप्रतिषेधे वर्तते तदा 'नयुक्तमवियुक्तं च' इत्यनया कल्पनया वस्त्वन्तरमेव प्रतीयते, नाभावः, तच्चाजीवद्रव्यं पुद्गलादिकमित्यर्थः । यदा तु नोशब्दो देशप्रतिषेधकस्तदा देशस्यानिषिद्धत्वाज्जीवस्य देशश्चतुर्भागादिकः प्रदेशो वाऽत्यन्ताविभजनीय उच्यते नोजीव इत्यनेन, एतदाहजीवस्य वा देशप्रदेशाविति । अजीव इति तूच्चरिते सर्वप्रतिषेधकत्वादकारस्य पर्युदासस्य वाऽऽश्रितत्वाज्जीवादन्यः अजीव इति अजीवद्रव्यमेव प्रतीयते पुद्गलादिकम्। नोअजीव इति पुनरभिहिते द्वयोरपि नोकाराकारयोः सर्वप्रतिषेधे यदा वृत्तिः आश्रिता तदा 'द्वौ प्रतिषेधौ प्रकृतं गमयतः' इति जीव इति प्रतीयते, यदा पुनरकारः सर्वनिषेधको नोशब्दश्च देशनिषेधको नोअजीव इत्याश्रीयते तदा नोनजोरपि कृतार्थतैवं स्याद् यदि तस्य जीवस्य देशप्रदेशौ गम्यते इत्यतो जीवस्य देशप्रदेशावत्र गम्येते, तदाह-तस्य वा देशप्रदेशाविति । एवं तावन्नैगमादयश्चतुर्षु जीव इत्यादिषु विकल्पेषु प्रवृत्ताः, एवम्भूतस्तु नैवं प्रतिपद्यते, कथं तीति चेदुच्यते भा०-एवम्भूतनयेन तु जीव इत्याकारिते भवस्थो जीवः प्रतीयते। कस्मात्? एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव । जीवतीति जीवः, प्राणिति प्राणान् धारयतीत्यर्थः । तच्च जीवनं सिद्धे न विद्यते, तस्माद् भवस्थ एव जीव इति । नोजीव इत्यजीवद्रव्यं सिद्धो वा । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति भवस्थ एव जीव इति । टी०-एवम्भूतेत्यादि । एवम्भूतनयेन जीव इत्युच्चरिते भवस्थो जीवः प्रतीयते, भवः-संसारश्चतुर्विधस्तस्मिन् स्थितो भवस्थः-संसारिजीवः प्रतीयते । कस्मात् सिद्धिस्थं त्यजतीति चेत् ? उच्यते-एष हीत्यादि, एष यस्मादेवम्भूतनयो जीवं प्रत्येवं प्रवर्तते य एव औदयिकेन गतिकषायादिस्वभावेनावस्थाविशेषेण युक्तस्तस्यैव ग्राहक:तमेवौदयिकभावयुक्तं जीवमिच्छति, यतः शब्दार्थ एवमवस्थितो 'जीव प्राणधारणे' जीवतीति जीवः । किमुक्तं भवति ? प्राणितीति, 'अन प्राणने' इति वाऽस्यार्थे, जीव इत्यस्य च धातोः सकर्तृकत्वं कथयति प्राणान् धारयतीति । प्राणाः-इन्द्रियाणि, मनोवाक्कायास्त्रयः, प्राणापानौ एकः आयुश्च तान् धारयति न मुञ्चति यावत् तावदसौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy