SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ८४ प्रतिपत्तयो भवन्ति, अथ च ज्ञेयस्य जगतः अध्यवसायान्तराणि परिच्छेदकारिविज्ञानान्येकादिरूपेण, तद्वत् तेन प्रकारेण नयानां वादा - जल्पा अध्यवसायकृता न विरुध्यन्ते । एतत् कथयति-यो हि नाम यत्र वस्तुनि धर्मो न विद्यते स तत्र स्वेच्छयोपादीयमानस्तत्स्थेनापरेण धर्मेण विरोधं प्रतिपद्यते, यथाऽऽत्मनि अज्ञानिता उपादीयमाना ज्ञानरूपेणात्मस्थेन धर्मेण विरुद्धा सती त्यज्यते, नैवं नयेषु, यथा वा व्योम्नि मूर्तता तत्स्थेनापरेणामूर्तेन धर्मेण विरुद्धा सती विप्रतिपत्तिरुच्यते नैवं नयेषु यतो वस्तु सामान्यविशेषधर्मसमन्वितं कश्चित् केनचिदाकारेण परिच्छिनत्ति । यदि ह्यसन्नेवासौ धर्मस्तेन नयेन तत्र वस्तुन्यध्यारोप्येत स्याद् विप्रतिपत्तिप्रसङ्ग इति, न तु तथा । भा०-किंचान्यत् । यथा मतिज्ञानादिभिः पञ्चभिर्ज्ञानैर्धर्मादीनामस्तिकायानामन्यतमोऽर्थः पृथक् पृथगुपलभ्यते, पर्यायविशुद्धिविशेषादुत्कर्षेण, न च तानि विप्रतिपत्तयो भवन्ति, तद्वन्नयवादाः ॥ टी० - किञ्चान्यदित्यनेनोपपत्त्यन्तरमप्यस्ति विप्रतिपत्तिदोषस्य परिहारार्थमिति दर्शयति-यथा मतिश्रुतावधिमनःपर्यायकेवलज्ञानैः पञ्चभिर्धर्माधर्माकाश- जीवपुद्गलानामस्तिकायानामिति, अस्तीति - त्रैकालिकसत्तासंसूचको निपातः, अभूवन् भवन्ति भविष्यन्ति च यतोऽतः सूच्यन्तेऽस्तीत्यनेन, काय इत्यनेन प्रदेशावयवबहुत्वमाचष्टे, वक्ष्यति पञ्चमे असङ्ख्येयाः प्रदेशाः (अ० ५, सू०७) इत्यादि, अतोऽस्ति च ते कायाश्चेति, तेषामन्यतमः अर्थ इति धर्मादिः, पृथक् पृथगुपलभ्यत इति, अन्यथा चान्यथां च परिच्छिद्यत इत्यर्थः । ननु चैकस्वभावस्य धर्मादेरस्तिकायस्य मत्यादिज्ञानैरयुक्तोऽन्यथात्वेन परिच्छेद इत्येवं चोदिते आह-पर्यायविशुद्धीत्यादि । पर्याया- भेदा:- विज्ञानस्वभावा मत्यादिरूपाः तेषां विशुद्धिः - स्वच्छता स्वावरणापगमजनिता तस्याः पर्यायविशुद्धेर्विशेषो भेदस्तस्मात् पर्यायविशुद्धिविशेषाद् उत्कर्षेणप्रकर्षेण तैर्मत्यादिभिस्तेषामस्तिकायानां पृथक् पृथगुपलब्धिर्भवति, तद्यथा मतिज्ञानी मनुष्यपर्यायं वर्तमानं चक्षुरादिनेन्द्रियेण साक्षात् परिच्छिनत्ति, तमेव च श्रुतज्ञानी आगमानुमानस्वभावेन, तमेवावधिज्ञानी अतीन्द्रियेण ज्ञानेन, तमेव मनःपर्यायज्ञानी तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्गतानि मनोद्रव्याणि दृष्ट्या अनुमानेनैव तं मनुष्यपर्यायमवच्छिनत्ति, केवलज्ञानी पुनरत्यन्तविशुद्धेन केवलेनावबुध्यते । न चैता मत्यादिका विप्रतिपत्तयः विरुद्धाः प्रतिपत्तयः, स्वसामर्थ्येन विषयपरिच्छेदात्, तद्वन्नयवादा इति किं नाश्रीयते ? अथवा पर्यायविशुद्धिविशेषादुत्कर्षेणेत्यन्यथा वर्ण्यते, पर्यायाणांक्रमभुवां मनुष्यादीनां जीवास्तिकायादिसम्बन्धिनां मत्यादिभिर्ज्ञानैः पृथक् पृथगुपलब्धिर्भवति, कथं ? प्रकर्षेण, कस्मादिति चेत् ? उच्यते - विशुद्धिविशेषात् ज्ञानादीनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy