SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः ८ ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः ९ ततः सूक्ष्मनिगोदस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः १० ततो बादरैकेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः ११ ततः सूक्ष्मनिगोदस्य पर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुगः १२ ततो बादरैकेन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः १३ ॥५३॥ असमत्ततसुक्कोसो, पज्ज जहन्नियरु एव ठिइठाणा । अपज्जेयर संखगुणा, परमपज्जबिए असंखगुणा ॥५४॥ असमाप्ताः-अपर्याप्तास्ते च ते त्रसाश्च-द्वीन्द्रियादयोऽसमाप्तत्रसा:-अपर्याप्तद्वि-त्रि-चतुरिन्द्रियाऽसंज्ञि-संज्ञिपञ्चेन्द्रियास्तेषामुत्कृष्टोऽसमाप्तत्रसोत्कृष्टोऽसङ्ख्येयगुणो वाच्यः । अयमर्थः-पर्याप्तबादरैकेन्द्रियोत्कृष्टयोगाद् द्वीन्द्रियस्य लब्ध्वपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः १४ ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः १५ ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्यो त्कृष्टो योगोऽसङ्ख्येयगुणः १६ ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङख्येयगुणः । १७ ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः १८ । “पज्जजहन्नियरु" त्ति ततस्त्रसानां पर्याप्तानां जघन्यो योगोऽसङ्ख्येयगुणो वाच्यः, ततोऽपि "इयरु" त्ति त्रसानां पर्याप्तानामुत्कृष्टो योगोऽसङख्येयगुणो वाच्य इत्यक्षरार्थः । भावार्थस्त्वयम्-ततः संज्ञिपञ्चेन्द्रियलब्ध्यपर्याप्तकोत्कृष्टयोगात् पर्याप्तद्वीन्द्रियस्य जघन्यो योगोऽसङ्ख्येयगुणः १९ ततस्त्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः २० ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः २१ ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः २२ ततः संज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः २३ ततः पर्याप्तद्वीन्द्रियस्योत्कृष्टो योगोऽसङ्ख्येयगुणः २४ ततः पर्याप्तत्रीन्द्रियस्योत्कृष्टो योगोऽसङ्ख्येयगुणः २५ ततः पर्याप्तचतुरिन्द्रियस्योत्कृष्टो योगोऽसङ्ख्येयगुणः २६ ततः पर्याप्तासंज्ञिपञ्चेन्द्रियस्योत्कृष्टो योगोऽसङ्ख्येयगुणः २७ ततः पर्याप्तसंज्ञिपञ्चेन्द्रियस्योत्कृष्टो योगोऽसङ्ख्येयगुणः २८ ततः पर्याप्तसंज्युत्कृष्टयोगाद् अनुत्तरोपपातिनामुत्कृष्टो योगोऽसङ्ख्येयगुणः २९ ततो ग्रैवेयकदेवानामुत्कृष्टो योगोऽसङ्ख्येयगुणः ३० ततो भोगभूमिजानां तिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसङ्ख्येयगुणः ३१ ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसङ्ख्येयगुणः३२ ततः शेषदेव-नारक-तिर्यङ्-मनुष्याणां यथोत्तरमुत्कृष्टयोगोऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy