SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीज्ञानमञ्जरी तदेव तपः तेषां भूमिः स्थानं भवति, एतत्स्वरूपनिरूपकमष्टकत्रयम्, (भावपूजाष्टकं ध्यानाष्टकं तपोऽष्टकं च) । ततः सर्वनयाश्रयणं सम्यग्ज्ञानं तत्प्ररूपकं द्वात्रिंशत्तममष्टकम् ॥४॥ ___एवं कारणकार्यपूर्वकाधिकारद्वात्रिंशत्फलकोपेतं ज्ञानसारं नाम यानपात्रम् । यदारूढाः मिथ्याज्ञानभ्रमणभीषणमतत्त्वैकत्वतारूपजलगम्भीरम्, असंयमपाथोधिमुल्लङ्घ्य सम्यग्दर्शनप्रतोलीमण्डितम्, सम्यग्ज्ञाननिधानोपेतम्, सम्यक्चारित्रानन्दास्वादमधुरम्, असंख्येयप्रदेशस्वसंवेद्यतत्त्ववेदकतासंपत्प्रवणम्, जिनप्रवचनप्राकारोत्सर्गापवादपरिखासंयुतम्, नयगमनिक्षेपानेकगुणौघं लभन्ते स्याद्वादपत्तनं भव्याः । इति ज्ञानसारफलोपदेशकं ग्रन्थस्य मौलिरूपमन्त्याधिकारमाह श्रीमत्पाठकेन्द्रः ॥४॥ स्पष्टं निष्टङ्कितं तत्त्वम्, अष्टकैः प्रतिपन्नवान् । मुनिर्महोदयं ज्ञानसारं समधिगच्छति ॥५॥ स्पष्टं निष्टङ्कितमिति-मुनि:-त्रिकालाविषयी, अष्टकैः स्पष्टंप्रकटम्, तत्त्वं-वस्तुधर्म आत्मपरिणमनरूपम् निष्टङ्कितं-निर्धारितम्, प्रतिपन्नवान्-अङ्गीकृतवान् । स मुनिः महोदयं-मोक्षरूपं ज्ञानसारंज्ञानस्य सारं चारित्रम्, तथा परां-मुक्तिम्, समधिगच्छति-प्राप्नोति । उक्तं च - [140] सामाइअमाईअं, सुअनाणं जावबिंदुसाराओ । तस्स वि सारो चरणं, सारं चरणस्स निव्वाणं ॥११२६॥ [विशेषा० गा० ११२६] तं प्राप्नोति ॥५॥ निर्विकारं निराबाधम्, ज्ञानसारमुपेनुषाम् । विनिवृत्तपराशानाम्, मोक्षोऽत्रैव महात्मनाम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy