SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नियागाष्टकम् (२८) १८९ प्राप्तिस्वीकारस्तस्य साधनं तन्निष्पादकत्वकारणं मन्यसे, यद्वा तत्फलमिच्छसि । तर्हि त्वं तत्कृते स्वकृतत्वस्मये स्वस्य-जीवस्य यत्कृतं निर्मितं कर्म तद्भावस्तत्त्वं तद्रूपो यः स्मयोऽहंकारस्तस्मिन् निमित्तभूते । हुते हुतमग्नौ प्रक्षेपणं मया निर्मितमिति अहंकारहोमनिमित्त इति यावत् । कर्मणो-ज्ञानावरणादिकस्य। ब्रह्माग्नौ-ब्रह्म शुद्धतीव्रोपयोगिज्ञानं निराशंसतपश्च तद्रूपो योऽग्निरूचं गच्छतीति व्युत्पत्तिमत्तेजस्तस्मिन् । आहुतिकरणं युक्तं-घटमानं न तु पश्वादेरित्यर्थः ॥६॥ अथ श्लोकद्वयेन स्वरूपफलदर्शनपूर्वकमुपसंहरतिब्रह्मण्यर्पितसर्वस्वो, ब्रह्मदृग्ब्रह्मसाधनः । ब्रह्मणा जुह्वदब्रह्म, ब्रह्मणि ब्रह्मगुप्तिमान् ॥७॥ ब्रह्मणि इति- 'ब्रह्मणि'-आत्मनि अर्पितसर्वस्वः-२अपितं-स्थापितं सर्वस्वं-सर्वात्मपरिणमनरूपमित्यनेन ज्ञानवीर्यलाभभोगादयः स्वक्षयोपशमीभूता भावा आत्मनि एवार्पिताः स्थापिता येन सः । तथा ब्रह्म-आत्मा आत्मज्ञानं वा तत्रैव दृग-दृष्टिदर्शनं श्रद्धानम् । ब्रह्मसाधनःब्रह्म ब्रह्मज्ञानमेव साधनं यस्य सः ब्रह्मसाधनः । अथवा-ब्रह्म-आत्मा एव साधने यस्य सः एवंविधः साधकजीवः ब्रह्मणि साधकावस्थापरिणतस्वात्मनि आधारभूते, ब्रह्मणी-आत्मज्ञानवीर्याभ्याम् अब्रह्म अज्ञानं-पुद्गलकर्म वात्मनः भिन्नं जुह्वत्-(होमं कुर्वत्) भस्मीचकार । कथम्भूतः साधकपुरुषः ? ब्रह्म-ब्रह्मचर्यं स्वरूपरमणरूपं तस्य गुप्तिमान् तद्गुप्तियुक्तः । इत्यनेन आत्मा कर्ता आत्मस्वरूपेण करणभूतेन आत्मस्वरूपरोधकं ज्ञानावरणादिकर्म आत्मनि स्थितं निवारयति ॥७॥ ब्रह्माध्ययननिष्ठावान्, परब्रह्मसमाहितः । ब्राह्मणो लिप्यते नाधैर्नियागप्रतिपत्तिमान् ॥८॥ ॥ इति नियागाष्टकम् ॥२८॥ २. ब्रह्म-आत्मनि सर्वप्रतिषु । ३. अर्पितः स्थापितः सर्वस्वः सर्वप्रतिषु । ४. रूपः इत्य० सर्वप्रतिषु । ४. ब्रह्मे V.2., S.M., B.1.2. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy