SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विभागः ४३ उत्पद्यमानत्वादिति। समष्टिरूपेण सहैव एषामुत्पत्ति व भवति, किन्तु कदाचित् केवलं दर्शनमेवोत्पद्यते, कदाचिच्च दर्शनावग्रहा उत्पद्येते, कदाचित् दर्शनावग्रहसंशयेहाः समुत्पद्यन्ते। एवं प्रकारेण असामस्त्येनासम्पूर्णरूपतया उत्पद्यमानत्वात् इमे परस्परं भिन्ना एव। किञ्च एभिरवग्रहादिभिः अपूर्वापूर्ववस्तुप्रकाशनं भवति । अर्थात् वस्तुनो भिन्नभित्रधर्मस्य प्रकाशनं भवति एभिरिति अस्मादपि कारणात् इमे परस्परं भिन्ना एव। किञ्च क्रमभाविनश्चेमे अर्थात् इमे क्रमश एव भवन्ति । तस्मात् एषां पारस्परिको भेदोऽनिवार्योऽस्ति । नहि क्रमभाविषु पदार्थेषु अभिन्नत्वम् एकत्वं वा वक्तुं शक्यते। तस्मादेषां पारस्परिको भेद एवावगन्तव्यः। यद्यपि ईहातः पूर्व संशयो भवति- यथा शाङ्कः शाङ्गो वा शब्द इति तथापि ईहा न संशयरूपा। संशयो यद्यपि अवग्रहादीनां मध्यपाती भवति तथापि अवग्रहादीनां मध्ये तदीया गणना न क्रियते। कारणञ्चास्येदमेव यत् संशयो न प्रमाणस्वरूपो न वा प्रमाणोपकारक इति। अवग्रहादीनां वैशिष्ट्यं सूत्रान्तरेण सूचयति 15. आशूत्पादात् क्वचित् क्रमानुपलक्षणमेषाम्। यथा दविष्ठात् विद्युद्गृहादागतविद्युत्प्रकाशक्रमो नोपलक्ष्यते। अवग्रह आदि परिचित अवस्था में इतने शीघ्र हो जाते हैं कि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy