SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४० भिक्षुन्यायकर्णिका होना चाहिए, इस प्रकार के प्रत्यय को 'ईहा' कहते हैं, जैसे- यह शब्द होना चाहिए। न्या. प्र. - शब्दविशेषं श्रुत्वा सादृश्यवशात्, शब्दोऽयं शाङ्खः शार्ङ्गं वेति जायते संशय: । तत्पश्चात् शाङ्खधर्मा एवात्रोंपलभ्यन्ते न कार्कश्ययुक्ताः शार्ङ्गधर्मा इत्येवं प्रकारेणान्वयव्यतिरेकद्वारा उभयोर्मध्ये विशेषस्य एकतरस्य यद् पर्यालोचनं क्रियते यत् शाङ्गेन शब्देन भाव्यम् इति । एवं पर्यालोचनरूपैव ईहा भवति । अत्र यः संशयो भवति स तु अवग्रहेहयोर्मध्ये भवति । अत्रायं क्रमः पूर्वमवग्रहः ततः संशयः, ततः विशेषपर्यालोचनरूपा ईहा भवति । अत्र मूले यल्लिखितं शब्देन भाव्यमिति ततः पूर्वं शाङ्खेन- शार्ङ्गण वेति योजनीयम् । केवलं शब्देन भाव्यम् इति कथनेन नैव संशयो न वा विशेषस्य पर्यालोचनमपि संभवति । इदानीमवायं लक्षयति सूत्रद्वारा 12. अमुक एवेत्यवायः ॥ यथाऽयं शब्द एव । 'अमुक ही है' ऐसे निर्णयात्मक ज्ञान को अवाय कहते हैं । जैसे- यह शब्द ही है । न्या. प्र. - अमुक एवायमिति निर्णयात्मकं ज्ञानमेव अवायः । यथा— शाङ्ख एवायं शब्दो न तु शार्ङ्ग: । अथ धारणां लक्षयन् सूत्रं करोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy