SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १९४ भिक्षुन्यायकर्णिका न्या. प्र.- त्रसप्राणिनां सजीवत्वं तु प्रत्यक्षसिद्धमेवास्ते। इदमत्रबोध्यं यत् त्रसपदेन जंगमजीवस्यैव ग्रहणं भवति। जङ्गमः स एव जीवो यः खलु भवति गतिशीलः। किन्तु गतिशील प्राणी एव सः इति त्रसस्य लक्षणे कृते लक्षणमिदं पुद्गलेष्वतिव्याप्तं भवति । भवति हि गतागतं पुदगलेस्वपि। तस्मात् त्रसस्योपर्युक्तं लक्षणं विहाय इदं लक्षणं क्रियते यत् - यो जीवो दुःखस्यैकान्तिकनिवृत्तिपुरःसरमनितरसाधारण सुखस्योपलब्धिकामनया यतमानो भवति स एव त्रसः । यद्यपि अत्र त्रस पदेन द्विन्द्रियजीवमारभ्य पञ्चेन्द्रियमनुष्यपर्यन्तं जीवा गृह्यन्ते तथापि त्रसपदस्य सार्थक्यं तु पूर्णरूपेण मनुष्ये एव संघटते। मनुष्यो हि भवति समीक्ष्यकारी आत्मानात्मविवेक परायणश्च । एकेन्द्रियाः पृथिव्यप्ते जोवायवो वनस्पतयश्च स्थावरा: जीवाः सन्ति। इति प्रमातृस्वरूपनिर्णयात्मकः सप्तमो विभागः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy