SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११८ भिक्षुन्यायकर्णिका स्याद्वाद एक वस्तु में अनेक विरोधी धर्मों का प्रतिपादक नहीं है किन्तु अपेक्षाभेद से विरोध का परिहारक है। न्या. प्र.- प्रत्येकं वस्तु अनन्तधर्मात्मकमिति अनेकान्तवादसिद्धान्तः। यद्यपि वस्तूनामनेकधर्मात्मकत्वमन्यदर्शनेष्वपि अभिमतं तथापि परस्परं --विरोधिनोऽविरोधिनश्चानेकधर्मा एकस्मिन्नेव वस्तुनि तिष्ठन्तीति अनेकान्तसिद्धान्तः। अनया रीत्या प्रत्येकं वस्तु विरोधिधर्माणामविरोधि अधिकरणमिति अनेकान्तवादस्य मौलिकं स्वरूपम्। तत्र च सर्वे धर्माः सहैव वक्तुं न शक्यन्ते इति अर्पणानर्पणाभ्यां विवक्षाविवक्षाभ्यामर्थात् एकस्य धर्मस्य प्रधानत्वेन विवक्षायां तथा शेषधर्माणामनर्पणया प्रधानत्वेन अनविवक्षया प्रतिपादनं करोति स्याद्वादः । स्यात् शब्दयुक्तत्वाच्चाायं वादः स्याद्वाद इति कथ्यते। स्याद्वादः एकस्मिन् वस्तुनि अनेकविरोधिधर्माणां प्रतिपादनं न करोति किन्तु अपेक्षाभेदेन विरोधं परिहरति। यस्मिन् समये यस्य धर्मस्य विवक्षा भवति स धर्मस्तदा प्राधान्यं भजते शेषधर्मास्तु तत्र वर्तमाना अपि अप्राधान्यमेव भजन्ते इति प्रतिपादयति स्याद्वादः। अनेन प्रकारेणेदं सिध्यति यत् अनेकान्तवादः सिद्धान्तोऽस्ति स्याद्वादश्च तस्य व्याख्यातास्ति। स्याद्वादस्य वचनप्रणाली कीदृशी कतिधा च सेति वक्तु मुपक्रमते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy