SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । मोः वा । ४१। मकारान्तयोः युष्मद्-अस्मदोः स्यादौ परे लुग् वा भवति । युवाम् युष्मान् वा आचक्षाणेभ्यः युष्मभ्यम् युषभ्यम् । अस्मभ्यम् असभ्यम् ॥ ४१ ॥ टा-ङि-ओसि यः । ४२। टा ङि ओस्सु परेषु युष्मद्-अस्मदोः अन्तस्य यकार आदेशो भवति । त्वया । मया । त्वयि । मयि । युवयोः । आवयोः । अतियुवया । अतिआवया ॥ ४२ ॥ मन्तस्य युव-आवौ द्वयोः। ४३ । द्वित्वविशिष्टे अर्थे वर्तमानयोः युष्मद्-अस्मदोः मकारान्तस्य अवयवस्य स्यादौ परे युव आव इति आदेशौ भवतः । युवाम् । आवाम् । अतियुवाम् । अतिआवाम् । अतियुवासु । अतिआवासु । मन्तस्य इति किम् ? युवयोः । आवयोः । अत्र दकारस्य यकारः यथा स्यात् । स्यादौ इति किम् ? युवयोः पुत्रः युष्मत्पुत्रः ।। ४३ ॥ स्व-मौ प्रत्यय-उत्तरपदे च एकस्मिन् । ४४ । एकत्वविशिष्टे अर्थे वर्तमानयोः युष्मद्-अस्मदोः मकारान्तस्य अवयवस्य स्यादौ परे प्रत्यय-उत्तरपदयोः यथासंख्यं त्व-मौ आदेशौ भवतः । त्वाम् । माम् । अतित्वासु । अतिमासु । त्वद्यति । मद्यति । त्वद्यते । मद्यते । त्वत्पुत्रः । मत्पुत्रः । प्रत्यय-उत्तरपदे च इति किम् ? अधियुष्मद् । अधिअस्मद् । एकस्मिन् इति किम् ? युष्माकम् । अस्माकम् ॥ ४४ ॥ ' त्वम् अहम् सिना प्राक् च अकः । ४५। ___ युष्मद्-अस्मदोः सिना सह यथासंख्यं त्वम् अहम् इति आदेशौ भवतः, अकश्च प्रसङ्गे तस्मात् प्राक् । त्वम् । अहम् । अतित्वम् । अतिअहम् । प्राक् च अकः इति किम् ? त्वकम् । अहकम् ॥ ४५ ॥ यूयम् वयम् जसा । ४६ । युष्मद्-अस्मदोः स्थाने जसा सह यथासंख्यं यूयम् वयम् इति आदेशौ भवतः, प्राक् च अकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy